Book Title: Anusandhan 2009 12 SrNo 50
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
डिसेम्बर-२००९
भक्तामर-वृत्तिः ॥ तु नमो वीतरागाय ।।
वृत्तिं भक्तामरादीनां स्तवानां वच्मि यथोचितम् ।
संक्षेपान्मुक्तिलाभाय सुखबुद्धिप्रबुद्धये ॥१॥ भक्तामरप्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा-वालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुत: सकलवाङ्मयतत्त्वबोधा-दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ।।२।।
युगलम् ॥ अहमपि, न केवलमिन्द्रादयः स्तुतवन्तः । स्तोष्ये-स्तवं विधास्ये । किलेत्यात्मनोऽस(श)क्तिमौद्धत्यपरिहारार्थम् । चित्तहरैरुदारैरिति । मानतुङ्गाचार्य कविः । किं स्तोष्ये ? । तं जिनेन्द्रम् । रागादीनां जेतृत्वाज्जिनाः सामान्यकेवलिनः, तेषामिन्द्रः-प्रधानस्तीर्थकरः । तं किम्भूतं ?। प्रथममाद्यमृषभनाथमित्यर्थः । यः किम्भूतः ? । संस्तुतः-सम्यग्-भक्तिबहुमानपुरस्सरम्; भगवदतिसा(शा)यिगुणपरिज्ञानपूर्वकं वा स्तुतो-नुतो-वन्दितः । कैः कर्तृभिः ?। सुरलोकनाथैर्देवनिवासप्रभुभिरिन्द्रैः । कीदृशैः ?। उद्भूतबुद्धिपटुभिः । प्रादुर्भूता या बुद्धिर्मतिस्तया पटवो दक्षा विद्वांसस्तैः । कुत ईदृशैः ?। सकलवाङ्मयतत्त्वबोधात् । वाचा निर्वृत्तं वाङ्मयं शास्त्रजातम् । सकलं च तद् वाङ्मयं च सकलवाङ्मयं, तस्य तत्त्वं परमार्थः, तस्याऽवबोधो ज्ञानं । तस्मात् - शास्त्रावगमात् । कैः कृत्वा संस्तुतः ?, स्तोत्रैः-स्तवनैः । कीदृशैः ?, जगत्रितयचित्तहरैः । जगतां- भुवनानां त्रितयं-त्रयं, तस्य चित्तानि, तानि हरन्ति-रजयन्तीति तानि तथोक्तानि । तैर्जगत्त्रये जन्तुमनआवर्जकैः, अत एवोदारैः-उदारार्थैरुद्भटेर्वा । किं कृत्वा स्तोष्ये ?, प्रणम्य-प्रकर्षेण नत्वा । कथं ?, सम्यग् बहुमानयुक्तम्; गुणावबोधसहितं वा । किं तद् ?, जिनपादयुगं - वीतरागचरणयुगलम् । कीदृशं ?, आलम्बनंआश्रयणं । केषां ?, जनानां-लोकानां -प्राणिनामित्यर्थः । किं कुर्वतां ?,पततांअधो गच्छतां-निमज्जतां । क्व ?, भवजले । भवन्ति-उत्पद्यन्ते कर्मायत्ता जन्तवो यस्मिन् सं.(स) भव:-संसारः । स एव जलं-संसारोदकं तस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 170