SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ भक्तामर-वृत्तिः ॥ तु नमो वीतरागाय ।। वृत्तिं भक्तामरादीनां स्तवानां वच्मि यथोचितम् । संक्षेपान्मुक्तिलाभाय सुखबुद्धिप्रबुद्धये ॥१॥ भक्तामरप्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा-वालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुत: सकलवाङ्मयतत्त्वबोधा-दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ।।२।। युगलम् ॥ अहमपि, न केवलमिन्द्रादयः स्तुतवन्तः । स्तोष्ये-स्तवं विधास्ये । किलेत्यात्मनोऽस(श)क्तिमौद्धत्यपरिहारार्थम् । चित्तहरैरुदारैरिति । मानतुङ्गाचार्य कविः । किं स्तोष्ये ? । तं जिनेन्द्रम् । रागादीनां जेतृत्वाज्जिनाः सामान्यकेवलिनः, तेषामिन्द्रः-प्रधानस्तीर्थकरः । तं किम्भूतं ?। प्रथममाद्यमृषभनाथमित्यर्थः । यः किम्भूतः ? । संस्तुतः-सम्यग्-भक्तिबहुमानपुरस्सरम्; भगवदतिसा(शा)यिगुणपरिज्ञानपूर्वकं वा स्तुतो-नुतो-वन्दितः । कैः कर्तृभिः ?। सुरलोकनाथैर्देवनिवासप्रभुभिरिन्द्रैः । कीदृशैः ?। उद्भूतबुद्धिपटुभिः । प्रादुर्भूता या बुद्धिर्मतिस्तया पटवो दक्षा विद्वांसस्तैः । कुत ईदृशैः ?। सकलवाङ्मयतत्त्वबोधात् । वाचा निर्वृत्तं वाङ्मयं शास्त्रजातम् । सकलं च तद् वाङ्मयं च सकलवाङ्मयं, तस्य तत्त्वं परमार्थः, तस्याऽवबोधो ज्ञानं । तस्मात् - शास्त्रावगमात् । कैः कृत्वा संस्तुतः ?, स्तोत्रैः-स्तवनैः । कीदृशैः ?, जगत्रितयचित्तहरैः । जगतां- भुवनानां त्रितयं-त्रयं, तस्य चित्तानि, तानि हरन्ति-रजयन्तीति तानि तथोक्तानि । तैर्जगत्त्रये जन्तुमनआवर्जकैः, अत एवोदारैः-उदारार्थैरुद्भटेर्वा । किं कृत्वा स्तोष्ये ?, प्रणम्य-प्रकर्षेण नत्वा । कथं ?, सम्यग् बहुमानयुक्तम्; गुणावबोधसहितं वा । किं तद् ?, जिनपादयुगं - वीतरागचरणयुगलम् । कीदृशं ?, आलम्बनंआश्रयणं । केषां ?, जनानां-लोकानां -प्राणिनामित्यर्थः । किं कुर्वतां ?,पततांअधो गच्छतां-निमज्जतां । क्व ?, भवजले । भवन्ति-उत्पद्यन्ते कर्मायत्ता जन्तवो यस्मिन् सं.(स) भव:-संसारः । स एव जलं-संसारोदकं तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy