Book Title: Anusandhan 1996 00 SrNo 06
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 71
________________ [66] पत्रनो पाठ स्वस्ति श्रीमद् यदीयक्रमकमलनमन्नाकिकोटीरकोटिभ्रश्यन्मन्दारमाला परिचयरचि(?)ता भृङ्गराजी विरेजे । नम्रौकः स्थैर्यहेतोः किमु पदनिहिता शृङ्खला सिन्धुपुत्र्यास्तन्यादन्याय्यवृत्तिव्युपरमपरमश्रीसमृद्धिं स वीरः ॥ एनं श्रीमन्तं सुत्रामग्रामजेजीयमानमहामोहसङ्ग्राम लब्धजयपताकाभिरामजगदऽतिशायिस्थामधामरामणीयकदत्तजनचमत्कारं तर्कसम्पर्कसमितिप्रासादडिण्डीरपिण्डप्रपाण्डुपवादपाथोधिस्वतन्त्रप्रचारमुद्रणसेतुबन्धायितसप्त(?)भङ्गीतस्यात्कारं सहृदयहृदयङ्गमरमणीयतालङ्कत सर्वभाषापरिणामिवचनरचनारचित सुधार[स] तिरस्कार श्रीवीरजिनजगदाधारं प्रणम्य विधूदयप्रवर्द्धमानगतरङ्गमिषादुन्मिषद्विधूपलनिर्मितप्राकारविस्तारिकान्तिजान्हवीं रसोल्लासादालिङ्गितुं विस्तारितकरेणेवोदन्वता विराजिते श्रीपूज्यपादपाविते श्रीमति पुरबन्दिरे, पुरन्दरपुरलक्ष्मीलुण्टकविलासकलितात्रा(?द् रा)जन्वतः श्रीराजनगराद् विनेयलेशदेशीयो विजयः सविनयं सानन्दं प्रेमप्राग्भारप्रकर्षमन्थरं द्विपतर्कप्रमितावर्त्तवन्दनेनाऽभिवन्द्य विधिवद् विज्ञपयति यथा कृत्यं चात्र प्रातर्महेभ्यसभ्यपरिपूरितायां सभायां ग्रन्थस्वाध्यायविधानादिप्रस्तुतकार्य परम्परायां प्रवर्त्तमानायां क्रमागतपर्युषणापर्वापि सक्षणनवक्षणकल्पसूत्रवाचन कल्पिताकल्पसंकल्पकल्पलतोपमश्रीजिनभवनपूजा - सार्मिकजनपोषण-दीनोद्धारश्रीजिनशासनप्रभावनादिभावनानुविहितानेह:समुचितभावदुस्तपतपस्तपनादिकर्मशत्रुनिर्मूलन-शमशर्मप्रदधर्मकर्मोपबृंहितं सुखमाशिखरमध्यारोपितं श्रीमत्पूज्यचरणपरिचरणकरणप्रभावादऽपरम् । अपराहठपरम्पराकमलिनीपरागलुब्धकविकुलमधुकरनिकरझंकारस्फीतसौभाग्यस्वच्छतपगच्छसाम्राज्यधुरन्धराणां कृतार्थीकृताऽर्थसार्थवितरणगुणविजित सुरतरु शोभाभराणां निःसीमस्थैर्यगुणपाटवपाठनछात्रीकृतसुरभूधराणां अगण्यलावण्यपुण्यतारुण्यसर:स्नानरसिकसुरपुरपुरन्ध्रीनयनकलभसुलभनिरुपमधूतरङ्गरङ्गनिर्झराणां लक्षभराणां श्रीपूज्यपुरन्दराणामस्मिन्नब्देऽद्य यावन्नैकोऽपि लेखो मत्करकमलमलंचकार । तदऽतः परं प्रसादमासादय(द्य?)तत्प्रेषणेन प्रमोदनीयं विनयपरमाणोः परमाण्विन्द्रियनैकायिकमुख्यचातुरीधुरीणैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122