________________
५१६
श्रीउत्तराध्ययनदीपिकाटीका-२ नामं कम्मं तु दुविहं, सुह असुहं च आहियं ।
सुहस्स उ बहू भेया, एमेव असुहस्स वि ॥१३॥ व्याख्या-नामकर्म द्विविधं, शोभते सर्वावस्थास्वनेनात्मेति शुभं, अशुभं च तद्विपरीतमाख्यातं, शुभस्यापि बहवो भेदाः, एवमेवाऽशुभस्यापि बहुभेदाः, तत्रोत्तरोत्तरभेदतः शुभनाम्नोऽनन्तभेदत्वेऽपि मध्यमविवक्षातः सप्तत्रिंशद्भेदा यथा-नृगतिः १ देवगतिः २ पञ्चेन्द्रिजाति: ३ औदारिक ४ वैक्रिय ५ आहारक ६ तैजस ७ कार्मण ८ शरीराणि पञ्च। समचतुरस्रसंस्थानं ९ वज्रऋषभनाराचसंहननं । १० औदारिक ११ वैक्रिय १२ आहारक १३ अङ्गोपाङ्गानि त्रीणि । प्रशस्तवर्ण १४ गन्ध १५ रस १६ स्पर्शाः १७ चत्वारः, मनुष्यानुपूर्वी १८ देवानुपूर्वी १९ चेत्यानुपूर्वीद्वयं । अगुरुलघु २० पराघातं २१ उच्छासं २२ आतप: २३ उद्योतः २४ प्रशस्तविहायोगतिः २५ । तथा त्रसं २६ बादरं २७ पर्याप्तं २८ प्रत्येकं २९ स्थिरं ३० शुभं ३१ सुभगं ३२ सुस्वरं ३३ आदेयं ३४ यश:कीतिः ३५ निर्माणं ३६ तीर्थङ्करनाम चेति ३७ । एताश्च सर्वा अपि शुभानुभावत्वाच्छुभाः, तथा अशुभनाम्नोऽपि मध्यमविवक्षया चतुस्त्रिंशद्भेदाः, यथा-नरकगतिः १ तिर्यग्गतिः २ एकेन्द्रियजातिः ३ द्वीन्द्रियजाति: ४ त्रीन्द्रियजाति: ५ चतुरिन्द्रियजाति: ६ ऋषभनाराचं ७ नाराचं ८ अर्द्धनाराचं ९ कीलिका १० सेवार्तं ११ न्यग्रोधमण्डलं १२ साति १३ वामनं १४ कुब्जं १५ हुण्डं १६ अप्रशस्तवर्ण १७ गन्ध १८ रस १९ स्पर्श २० चतुष्कं । नरकानुपूर्वी २१ तिर्यगानुपूर्वी २२ उपघातं २३ अप्रशस्तविहायोगतिः २४ स्थावरं २५ सूक्ष्मं २६ साधारणं २७ अपर्याप्तं २८ अस्थिरं २९ अशुभं ३० दुर्भगं ३१ दुःस्वरं ३२ अनादेयं ३३ अयशःकीर्तिश्च ३४ इत्येतानि चाशुभनारकत्वादिहेतुत्वेनाऽशुभानि । अत्र बन्धनसङ्घाते शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्ते इति नोक्तः सङख्यातिक्रमः ॥१३॥
गोत्तं कम्मं दुविहं, उच्चं नीयं च आहियं ।
उच्चं अट्टविहं होइ, एवं नीयं पि आहियं ॥१४॥ व्याख्या-गोत्रकर्म द्विविधं, उच्चमिक्ष्वाकुजात्यादि, नीचं च नीचजात्यादि आख्यातं । तत्रोच्चमुच्चैर्गोत्रमष्टविधं, एवं नीचगोत्रमप्यष्टविधमाख्यातं । अष्टविधत्वं चानयोर्बन्धहेत्वष्टविधत्वात् , तत्राष्टौ जात्यऽमदाद्या उच्चैर्गोत्रस्य बन्धहेतवः, जातिमदाद्याश्च नीचैर्गोत्रस्य बन्धहेतवः, तथाच प्रज्ञापना-"उच्चागोयकम्मसरीरपुच्छा-गोयमा जाइअमएणं कुलअमएणं बलअमएणं रूवअमएणं तवअमएणं ईसरियअमएणं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org