Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 314
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् बालमरणाणि बहुसो, अकाममरणाणि चेव य बहुणि । मरिहंति ते वराया, जिणवयणे जे न याति ॥ २६५ ॥ व्याख्या–सुब्व्यत्ययात् बालमरणैर्विषभक्षणोद्बन्धनादिप्रयोगैर्बहुशोऽनेकधा अकाममरणैश्चाऽनिच्छामरणैर्बहुभिरेव, चः पूर्वौ, मरिष्यन्ति ते वराका बहुदुःखभाजनतयाऽनुकम्पनीयाः, जिनवचनं ये न जानन्ति ज्ञानफलत्वादनुष्ठानस्य, न चानुतिष्ठन्तीति ॥२६५॥ अतोऽर्हद्वचनं भावात् कर्त्तव्यं, तद्भावकरणं चालोचनया, सा च तच्छ्रवणार्हाणां देया, ते च यैर्हेतुभिः स्युस्तानाह— बहुआगमविण्णाणा, समाहिउप्पायगा य गुणगाही । एएण कारणेणं, अरिहा आलोयणं सोउं ॥ २६६ ॥ व्याख्या–बहुः अङ्गोपाङ्गसूत्रार्थाभ्यामेवागमः, तस्मिन् विशिष्टं ज्ञानं येषां ते बा - गमविज्ञानाः, देशकालाशयादिविज्ञतया, समाधिमेव मधुरभणित्याद्यैरालोचयितॄणामुत्पादयन्ति ते समाध्युत्पादकाः, ततो गुणग्राहिणश्च, उपबृंहणार्थं परेषां सम्यग्दर्शनादिगुणग्रहणशीलाः, एतैः कारणैरर्हाः स्युराचार्याद्याः [आलोचनां श्रोतुम्], यतः - आलोचनायै द्वादशवर्षाणि सप्तशतयोजनानि च गम्यानि आलोचनाग्रहणप्रायश्चित्तकरणेच्छुभिः परं तादृग्गीतार्थगुरोः पार्श्वे एव मुख्यत आलोच्यम् । उक्तं च सल्लुद्धरणनिमित्तं खित्तंमि य सत्तजोयणसयाई । काले बारस वासा, गीयत्थगवेसणं कुज्जा ॥१॥ [] गुर्वभावे मरणे सिद्धसाक्ष्यप्यालोच्यम् ॥२६६॥ कन्दर्पादिभावनास्वरूपमाह कंदष्पकुक्कुयाई, तह सीलसहावहासविगहाहिं । विम्हाविंतो य परं, कंदप्पं भावणं कुणइ ॥ २६७॥ व्याख्या-कन्दर्पोऽट्टट्टहासहसनं, अनिभृता आलापाः, गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च १ कौकुच्यं द्विधा, कायेन वाचा - भूनयणवयणदसण-च्छएहिं करचरणकण्णाईहिं । तं तं करेड़ जहहस्सए, परो अत्तणा अहसं ॥१॥ [] ५९९ वायाए कुक्कुइओ, तं जंपेइ जेण हस्सए अन्नो । नाणाविहजीवरू, कुव्वइ मुहतूरए चेव ॥२॥ [ ] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370