Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 364
________________ परिशिष्टम् [७] दीपकाटीकागताऽन्यमतखण्डनविमर्शः ॥ अ०गा० "इहमेगे उ मन्नंति....विमुच्चइ" - इहास्मिन् जगति मुक्तिमार्गविचारे वा एके कपिलादिकुतीर्थ्यास्तु मन्यते प्ररूपयन्ति च, यथा अप्रत्याख्याय पापकं हिंसाविरतिमकृत्वा, आर्य तत्वं यद्वाऽऽचारिकं निजनिजाचारभवमनुष्ठानमेव विदित्वा स्वसंवेदनेनानुभूय सर्वदुःखेभ्य आध्यात्मिकाधिभौतिकादिदैविकलक्षणेभ्यः शारीरमानसेभ्यो वा मुच्यते । आहुश्च पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥ [शा.वा./३-३७] तेषां ज्ञानमेव मुक्त्यङ्ग । नचैतच्चारु, न हि रोगेभ्य इवौषधादिज्ञानाद्भावरोगेभ्यो ज्ञानावरणादिकर्मभ्यश्चारित्रादिज्ञानादेव महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियामननुष्ठाय मुक्तिः, ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैवात्मानं स्वस्थयन्ति । "एगे तिन्ने दुरुत्तरं" - ५-१ ___एको रागाद्यसहायो गौतमादिर्यद्वा एको जिनमतप्रतिपन्नो न तु चरकादिमताक्षिसस्तीर्ण इव तीर्णः, आसन्नसिद्धत्वेनाभूत् । "कम्माणं तु पहाणाए" - ३-७ कर्मणां नृगतिनिवारकाणां अनन्तानुबन्ध्यादीनां प्रहाणस्य क्षयस्य आये लाभे सति, अनेनेश्वरकर्तृत्वं निरस्तम् । "जहाएसं.....सयंगणे" - "महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्" इति स्मृत्युक्तेः, विप्राणामियं कुमतिः स्यात् । ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370