Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
६०१ निच्चं दुग्गहसीलो, काऊण य नाणुतप्पए पच्छा ।
न य खामिओ पसीयइ, अवराहीणं दुवेण्हं पि ॥१॥[प.व./गा.१६५०] अपराधिनोईयोरपि सतोरन्यस्मिन्न ते स्वयं न प्रसीदति, यथा समुच्चये, चः पूत्तौं, निमित्तेऽतीतादौ भवति प्रतिसेवी, अपुष्टालम्बनेऽपि तदासेवनात् , एताभ्यां कारणाभ्यामासुरीं भावनां करोति ॥२७०॥
सत्थग्गहणं विसभक्खणं च, जलणं च जलपवेसो य ।
अणायारभंडसेवी, जंमणमरणाणि बंधंति ॥२७१॥ व्याख्या-शस्यते हन्यतेऽनेनेति शस्त्रं, तस्य ग्रहणं, आत्मनि वधार्थं व्यापारणं, वेवेष्टि देहमिति विषं, तस्य भक्षणं च, ज्वलनं आत्मदहनं, जलप्रवेशः, चः अनुक्तभृगुपातादिपरिग्रहे, अनाचारः, आचारः शास्त्रोक्तो व्यवहारः, न आचारोऽनाचारस्तेन भाण्डस्योपकरणस्य सेवा हास्यमोहाद्यैः परिभोगः, तानि कुर्वन्तो यतयो जन्ममरणानि जन्ममरणनिमित्तिकर्माणि बध्नन्ति, सङ्कलेशजनकत्वेनाऽनन्तभवहेतुत्वात् शस्त्रग्रहणादीनां । एवं च मार्गविप्रतिपत्त्या मोहीभावनोक्ताः, यतस्तल्लक्षणम्
उम्मग्गदेसओ मग्ग-नासओ उमग्गपडिवत्ती ।
मोहेण मोहित्ता, संमोहणं भावणं कुणइ ॥१॥ [प.व./गा.१६५५ ] त्ति अस्याश्चत्र परम्पराफलमिदमुक्तम्
एयाओ भावणाओ, भाविता देवदुग्गइं जंति ।
तत्तो य चूया संता, पडंति भवसागरमणंतं [प.व./गा.१६६१] ॥२७१॥ उपसंहरन्माहात्म्यमाह
इइ पाउकरे बुद्धे, णायए परिणिव्वुए ।
छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए ॥२७२॥ त्ति बेमि व्याख्या-इत्येतान् , सूत्रत्वात् प्रादुष्कृत्य, काश्चिदर्थतः काञ्चित्सूत्रतोऽपि प्रकाश्य परिनिर्वृतो निर्वाणं गतो, बुद्धः केवली ज्ञातजो वर्द्धमानस्वामी, अथवा 'पाउकरे' प्रादुरकार्षीत् , प्रकाशितवान् , शेषं तदेव, परिनिर्वृतः क्रोधादिदहनोपशमतः सम्मतात् स्वस्थीभूतः, षट्त्रिंशदिति षट्त्रिंशत्सङ्ख्यान् , उत्तराः प्रधाना अध्याया उत्तराध्यायास्तान् विनयश्रुतादीन् , भवसिद्धिका भव्यास्तेषां सं भृशं मतान् इष्टान् भवसिद्धिकसम्मतान् ।।२७२।। इति समाप्तौ ब्रवीमीति सुधर्मागणी जम्बूं प्रत्याह । उक्तोऽनुगमः नयानामनुमतमत्रैव प्रागुक्तम् ॥
इति षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनमुक्तम् ॥३६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370