SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् ६०१ निच्चं दुग्गहसीलो, काऊण य नाणुतप्पए पच्छा । न य खामिओ पसीयइ, अवराहीणं दुवेण्हं पि ॥१॥[प.व./गा.१६५०] अपराधिनोईयोरपि सतोरन्यस्मिन्न ते स्वयं न प्रसीदति, यथा समुच्चये, चः पूत्तौं, निमित्तेऽतीतादौ भवति प्रतिसेवी, अपुष्टालम्बनेऽपि तदासेवनात् , एताभ्यां कारणाभ्यामासुरीं भावनां करोति ॥२७०॥ सत्थग्गहणं विसभक्खणं च, जलणं च जलपवेसो य । अणायारभंडसेवी, जंमणमरणाणि बंधंति ॥२७१॥ व्याख्या-शस्यते हन्यतेऽनेनेति शस्त्रं, तस्य ग्रहणं, आत्मनि वधार्थं व्यापारणं, वेवेष्टि देहमिति विषं, तस्य भक्षणं च, ज्वलनं आत्मदहनं, जलप्रवेशः, चः अनुक्तभृगुपातादिपरिग्रहे, अनाचारः, आचारः शास्त्रोक्तो व्यवहारः, न आचारोऽनाचारस्तेन भाण्डस्योपकरणस्य सेवा हास्यमोहाद्यैः परिभोगः, तानि कुर्वन्तो यतयो जन्ममरणानि जन्ममरणनिमित्तिकर्माणि बध्नन्ति, सङ्कलेशजनकत्वेनाऽनन्तभवहेतुत्वात् शस्त्रग्रहणादीनां । एवं च मार्गविप्रतिपत्त्या मोहीभावनोक्ताः, यतस्तल्लक्षणम् उम्मग्गदेसओ मग्ग-नासओ उमग्गपडिवत्ती । मोहेण मोहित्ता, संमोहणं भावणं कुणइ ॥१॥ [प.व./गा.१६५५ ] त्ति अस्याश्चत्र परम्पराफलमिदमुक्तम् एयाओ भावणाओ, भाविता देवदुग्गइं जंति । तत्तो य चूया संता, पडंति भवसागरमणंतं [प.व./गा.१६६१] ॥२७१॥ उपसंहरन्माहात्म्यमाह इइ पाउकरे बुद्धे, णायए परिणिव्वुए । छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए ॥२७२॥ त्ति बेमि व्याख्या-इत्येतान् , सूत्रत्वात् प्रादुष्कृत्य, काश्चिदर्थतः काञ्चित्सूत्रतोऽपि प्रकाश्य परिनिर्वृतो निर्वाणं गतो, बुद्धः केवली ज्ञातजो वर्द्धमानस्वामी, अथवा 'पाउकरे' प्रादुरकार्षीत् , प्रकाशितवान् , शेषं तदेव, परिनिर्वृतः क्रोधादिदहनोपशमतः सम्मतात् स्वस्थीभूतः, षट्त्रिंशदिति षट्त्रिंशत्सङ्ख्यान् , उत्तराः प्रधाना अध्याया उत्तराध्यायास्तान् विनयश्रुतादीन् , भवसिद्धिका भव्यास्तेषां सं भृशं मतान् इष्टान् भवसिद्धिकसम्मतान् ।।२७२।। इति समाप्तौ ब्रवीमीति सुधर्मागणी जम्बूं प्रत्याह । उक्तोऽनुगमः नयानामनुमतमत्रैव प्रागुक्तम् ॥ इति षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनमुक्तम् ॥३६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy