________________
६००
श्रीउत्तराध्ययनदीपिकाटीका-२ मुखतुर्ये एव नानाविधजीवरुतान् नानावाद्यादिशब्दांश्च कुरुते । एवं कन्दर्पकौकुच्यं कुर्वन् , 'तह'त्ति यथा परस्य विस्मयः स्यात्तथा यत् शीलं फलनिरपेक्षा प्रवृत्तिः स्वभावश्च, परविस्मयोत्पादनायैव तत्तन्मुखविकारादिकं स्वरूपं, हसनं चाट्टहासादि विकथाश्च परविस्मापकविविधोल्लापाः, ताभिर्विस्मापयन् परं कन्दर्पयोगात् कन्दर्पा देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दी, तां भावनां तद्भावाभ्यासरूपां करोति ॥२६७॥
मन्ताजोगं काउं, भूइकम्मं च जे पउंजंति ।
सायरसइड्डिहेडं, अभिओगं भावणं कुणइ ॥२६८॥ व्याख्या-सूत्रत्वान्मन्त्राश्च योगाश्च तथाविधद्रव्यसंयोगाः, मन्त्रयोगं कृत्वा, भूत्या भस्मना मृदा वासैः सूत्रेण वा कर्म, रक्षार्थं च पादादेः परिवेष्टनं भूतिकर्म, चात् कौतुकादि यः प्रयुङ्क्ते सातरसऋद्धिहेतुं , अनेन पुष्टालम्बने निःस्पृहस्यैव तत्कुर्वतो न दोष इत्युक्तं । स आभियोगी भावनां करोति ॥२६८||
णाणस्स केवलीणं, धम्मायरिया य संघसाहूणं ।
माई अवण्णवाई, किदिवसियं भावणं कुणइ ॥२६९॥ व्याख्या-ज्ञानस्य श्रुतादेरासातना, का ? श्रुतज्ञाने किं वर्णितमस्ति सारं ? विशेषश्च कोऽपि न, ते एव षट्कायाः, तान्येव पञ्चमहाव्रतानीत्यादि, यतः
काया वया य ते च्चिय, ते चेव पमाय अप्पमाया य ।
मुक्खहिगारियाणं, जोइसजोणीहिं किं कज्जं ? ॥१॥ [पं.व./गा.१६३७] केवलिनां ज्ञानदर्शनयोः क्रमोपयोगे परस्परावरणता, युगपदुपयोगे चैकापत्तिः, धर्माचार्यस्य यथा शिष्या जात्यादिभिर्गुरोरवर्णं भाषन्ते, सङ्घस्य यथा बहवश्च शृगालादिसङ्घाः, तत्कोऽयमिह सङ्घः ? साधूनां च यथा-न चामी परस्परमपि हसन्ते, बकवृत्तिरियमेषामित्यादि, तथा मायी आत्मनः सतोऽप्यगुणानाच्छादयतीत्याद्यवर्णवादी जीवः किल्बिषिकी भावनां करोति ॥२६९॥ विचित्रत्वात् सूत्रकृतेर्मोहीप्रस्तावेऽप्यासुरीमाह
अणुबद्धरोसपसरो, तह य णिमित्तंमि होइ पडिसेवी ।
एएहि कारणेहिं य, आसुरियं भावणं कुणइ ॥२७०॥ व्याख्या-अनुबद्धोऽव्यवच्छिन्नो रोषस्य प्रसरोऽस्यैति, यतः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org