________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
बालमरणाणि बहुसो, अकाममरणाणि चेव य बहुणि । मरिहंति ते वराया, जिणवयणे जे न याति ॥ २६५ ॥
व्याख्या–सुब्व्यत्ययात् बालमरणैर्विषभक्षणोद्बन्धनादिप्रयोगैर्बहुशोऽनेकधा अकाममरणैश्चाऽनिच्छामरणैर्बहुभिरेव, चः पूर्वौ, मरिष्यन्ति ते वराका बहुदुःखभाजनतयाऽनुकम्पनीयाः, जिनवचनं ये न जानन्ति ज्ञानफलत्वादनुष्ठानस्य, न चानुतिष्ठन्तीति ॥२६५॥
अतोऽर्हद्वचनं भावात् कर्त्तव्यं, तद्भावकरणं चालोचनया, सा च तच्छ्रवणार्हाणां देया, ते च यैर्हेतुभिः स्युस्तानाह—
बहुआगमविण्णाणा, समाहिउप्पायगा य गुणगाही । एएण कारणेणं, अरिहा आलोयणं सोउं ॥ २६६ ॥
व्याख्या–बहुः अङ्गोपाङ्गसूत्रार्थाभ्यामेवागमः, तस्मिन् विशिष्टं ज्ञानं येषां ते बा - गमविज्ञानाः, देशकालाशयादिविज्ञतया, समाधिमेव मधुरभणित्याद्यैरालोचयितॄणामुत्पादयन्ति ते समाध्युत्पादकाः, ततो गुणग्राहिणश्च, उपबृंहणार्थं परेषां सम्यग्दर्शनादिगुणग्रहणशीलाः, एतैः कारणैरर्हाः स्युराचार्याद्याः [आलोचनां श्रोतुम्], यतः - आलोचनायै द्वादशवर्षाणि सप्तशतयोजनानि च गम्यानि आलोचनाग्रहणप्रायश्चित्तकरणेच्छुभिः परं तादृग्गीतार्थगुरोः पार्श्वे एव मुख्यत आलोच्यम् । उक्तं च
सल्लुद्धरणनिमित्तं खित्तंमि य सत्तजोयणसयाई । काले बारस वासा, गीयत्थगवेसणं कुज्जा ॥१॥ [] गुर्वभावे मरणे सिद्धसाक्ष्यप्यालोच्यम् ॥२६६॥ कन्दर्पादिभावनास्वरूपमाह
कंदष्पकुक्कुयाई, तह सीलसहावहासविगहाहिं । विम्हाविंतो य परं, कंदप्पं भावणं कुणइ ॥ २६७॥
व्याख्या-कन्दर्पोऽट्टट्टहासहसनं, अनिभृता आलापाः, गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च १ कौकुच्यं द्विधा, कायेन वाचा -
भूनयणवयणदसण-च्छएहिं करचरणकण्णाईहिं ।
तं तं करेड़ जहहस्सए, परो अत्तणा अहसं ॥१॥ []
५९९
वायाए कुक्कुइओ, तं जंपेइ जेण हस्सए अन्नो । नाणाविहजीवरू, कुव्वइ मुहतूरए चेव ॥२॥ [ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org