________________
५९८
श्रीउत्तराध्ययनदीपिकाटीका-२ मरणसमये विराधिकाः सम्यग्दर्शनादीनां, इह च मरणे इत्युक्तेः पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावे सुगतिरपि स्यात् , एतद्विपरीतभावनायां च सुगतिहेतुत्वं ज्ञेयम् ।।२६०।।
मिच्छादसणरत्ता, सनियाणा हु हिंसगा।
इय जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥२६१॥ व्याख्या-मिथ्यादर्शनमतत्त्वे तत्त्वाग्रहः, तस्मिन् रक्ता आसक्ताः, समक्त्वादिविराधनायां ह्येतदासक्तिरेव स्यात् , सनिदानाः कृतसङ्गप्रार्थनाः, हुः पूर्ती, हिंसकाश्च स्युः, इत्येवंरूपा ये नियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिः, प्रेत्ये जिनधर्माप्तिः ॥२६१।।
सम्मइंसणरत्ता, अनियाणा सक्कलेसमोगाढा ।
इय जे मरंति जीवा, सुलहा तेसिं भवे बोही ॥२६२॥ व्याख्या-सम्यग्दर्शनरक्ता अनिदानाः शुक्ललेश्यामवगाढाः प्रविष्टा इति ये नियन्ते जीवास्तेषां बोधिः सुलभा भवेत् ॥२६२॥
मिच्छादसणरत्ता, सणियाणा कण्हलेसमोगाढा ।
इइ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥२६३॥ व्याख्या-इत्यमुना प्रकारेण ये म्रियन्ते तेषां पुनर्जन्मान्तरे बोधिदुर्लभा भवेत् , इतीति किं ? कृष्णलेश्यामवगाढा मिथ्यादर्शनरक्ताः पुनः सनिदानाः, एतादृशाः सन्तो ये म्रियन्ते तेषां जिनधर्माप्तिः पुनर्दुर्लभा भवेत् , अत्र गाथायां पुनरुक्तिदूषणं न ज्ञेयं, इह तु कृष्णलेश्यावतां म्रियमाणानां भवसन्ततावपि बोधिप्राप्तेरभाव इति सूचितं, पूर्वगाथायां तु कृष्णलेश्यारहितानां मृतानां मरणानन्तरमपरजन्मनि बोधिर्दुर्लभत्वं दर्शितम् ॥२६३॥ जिनवचनाराधनेनैव सर्वं संलेखनादिश्रेयोऽतोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह
जिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेणं ।
अमला असंकिलिट्ठा, ते हंति परित्तसंसारी ॥२६४॥ व्याख्या-जिनवचनेऽनुरक्ता जिनवचनं ये कुर्वन्त्यनुतिष्ठन्ति, भावेन अमला मिथ्यात्वादिभावमलरहिताः, असङ्क्लिष्टा रागादिसङ्क्लेशरहिताः, 'परीत्ते' इति समस्तदेवादिभवाल्पतापादनेन सम्मतात् खण्डितः संसारो येषां ते परीत्तसंसारिणः कतिपय-- भवान्तरमुक्तिभाजः ॥२६४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org