SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् तओ संवच्छद्धं तु, विगिट्टं तु तवं चरे । परिमियं चेव आयामं, तंमि संवच्छरे करे ॥ २५८ ॥ व्याख्या–ततः संवत्सरार्द्धं षण्मासान्, तुरेवार्थे, विकृष्टमेव तपश्चरेत्, अत्रैव विशेषमाह - परिमितमेव स्तोकमेवाचाम्लं तपस्तस्मिन् संवत्सरे कुर्यात्, कोऽर्थः ? पूर्वस्मिन् संवत्सरार्द्धेऽस्मिन् संवत्सरार्द्धे च, एवं एकादशे संवत्सरे चतुर्थषष्ठाष्टमादीनां पारणे आचाम्लं विदध्यादित्यर्थः, ततः कोटीसहितं तपः स्यात् ॥ २५८॥ द्वादशमवर्षक्रियामाह कोडीसहियमायामं, कट्टु संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ॥२५९॥ ५९७ व्याख्या - कोटावग्रभागे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिंस्तकोटिसहितं यथाद्य प्रातराचाम्लं कृत्वाऽहोरात्रं प्रपाल्य द्वितीयेऽह्नि आचाम्लं प्रत्याख्याति, ततो द्वितीयस्यारम्भकोटिराद्यस्यान्तकोटिः, उभे कोटी मिलिते । यद्वाचाम्लं कृत्वा द्वितीयेऽह्नि अन्यत्तपः कृत्वा तृतीयेऽह्नि आचाम्लं, एवमप्याद्यन्तसमत्वं । इत्थं कोटीसहितं कृत्वा संवत्सरे द्वादशे मुनिर्मासिकेनार्द्धमासिकेन आहारेणं 'त्ति, कोऽर्थः ? मासार्द्धमासाभ्यां भक्तत्यागेन तप इति भक्तपरिज्ञादि अनशनं चरेदनुतिष्ठेत् । निशीथचूर्णिश्चात्रदशमवर्षादनु अण्णे वि दो वि वरिसे चउत्थं काउं आयंबिलेण पारेइ, इक्कारसे वरिसे पढमं छम्मा अविगिट्टं तवं काऊ कंजिएण पारेई, बिइए छम्मासे विगिट्ठे तवं काउं आयंबिलेण पारेइ, दुवालसंवरिसं निरंतरं हायमाणं उसिणोदएणं आयंबिलं करेइ, कोडीसहियं भण्णइ, जेणायंबिलस कोडी कोडीए मिलेइ, जहा पदीवस्स वत्ती तिल्लं च समं निट्ठवइ, तहा बारसमे वरिसे आहारं परिहावेइ, जहा आहारसंलेहणाए आउयं च सम्मं निट्टवइ, इत्थ बारसमस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेलगंडूसं निसिद्धं धरेओ खेलमल्लगे निडुहइ, मा अइरुक्खत्तणओ मुहजंतविसंवाओ भविस्सइ त्ति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ" [ ] ॥२५९॥ इत्थमात्ताऽनशनस्याऽशुभभावनापरिहारादिज्ञप्त्यै आह कंदप्पमाभिओगं, किव्विसियं मोहमासुरत्तं च । एयाओ दुग्गइओ, मरणंमि विराहिया हुंति ॥ २६०॥ व्याख्या-उपलक्षणत्वात् कन्दर्पभावना, आभियोग्यभावना, किल्विषभावना, मोहभावना, असुरत्वभावना च एता दुर्गतिहेतुतया दुर्गतयोऽर्थाद्देवदुर्गतिरूपा भवन्ति, मरणे Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy