________________
५९६
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-इत्येवम्प्रकारान् जीवाऽजीवान् श्रुत्वा श्रद्धाय च तथेति प्रतिपद्य, सर्वनया ज्ञानक्रियानयान्तर्गता नैगमाद्यास्तेषामनुमतेऽभिप्रेते ज्ञानयुक्तसम्यक्चारित्ररूपे संयमे मुनी रमते रतिं कुर्यात् ।।२५३।।
संयमरतिकरणादनु कृत्यमाह
तओ बहूणि वासाणि, सामण्णमणुपालिया ।
इमेण कम्मजोएण, अप्पाणं संलिहे मुणी ॥२५४॥ व्याख्या-ततो बहूनि वर्षाणि श्रामण्यमनुपाल्याऽनेन क्रमयोगेनात्मानं संलिखेत् , द्रव्यतो भावतश्च कृशीकुर्यात् मुनिः, बहूनि वर्षाणि श्रामण्यमनुपाल्येत्युक्त्या दीक्षाऽनन्तरमेव नैतद्विधिरित्यज्ञापि । यतः
परिपालिओ दीहो, परियाओ वायणा तहा दिण्णा ।
निप्पाइया य सीसा, सेयं मे अप्पणो काउं ॥१॥[ ] ॥२५४।। संलेखनाभेदानाह
बारसेव उ वासाइं, संलेहुक्कोसिया भवे ।
संवच्छरमज्झिमया, छम्मासा य जहन्निया ॥२५५॥ व्याख्या-द्वादशैव, न तु न्यूनाधिकानि वर्षाणि संलेखना द्रव्यतः शरीरस्य भावतश्च कषायाणामुत्कृष्टा भवेत् , संवत्सरं च मध्यमिका, षण्मासांश्च जघन्यिका ॥२५५।। क्रमयोगमाह
पढमे वासचउक्क्रमि, विगईनिज्जूहणं करे ।
बीए वासचउक्क्रमि, विचित्तं तु तवं चरे ॥२५६॥ व्याख्या-प्रथमे वर्षचतुष्के विकृत्या नियूँहणं त्यागं कुर्यात् आचाम्लस्य निवृत्तकृतस्य वा करणेन, इदं च विचित्रतपसः पारणके, द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं [तपश्चरेत्]। अत्र च पारणके सम्प्रदाय:-"उग्गमविसुद्धं सव्वं कप्पणिज्जं पारेइ'' [ ] ।
एगंतरमायाम, कट्ट संवच्छरे दुवे ।
तओ संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥२५७॥ व्याख्या-एकेन चतुर्थलक्षणेन तपसान्तरं व्यवधानं यत्र तदेकान्तरमायाममाचाम्लं कृत्वा संवत्सरौ द्वौ यावत् , ततस्तदनन्तरं वत्सरार्द्धं तु मासषट्कं यावत् अतिविकृष्टमष्टमादि तपो नैव चरेत् ।।२५७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org