SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् ५९५ पुनर्देवत्वे भवतामन्तर्मुहूर्त्तमन्तरं यथा देवो नृतिर्यक्त्वमन्तर्मुहूर्तमध्य एव गर्भजन्मादि भुक्त्वा देवायुर्बद्ध्वान्तर्मुहूर्त्तं लघु अबाधाकालं भुक्त्वा वृद्धान्तर्मुहूर्त्तमध्य एव पुनर्देवः स्यादिति, यतोऽन्तर्मुहूर्त्तायुरङ्गुलसङ्ख्येयभागोऽपि तिर्यक् सहस्रारं यावद्देवेषूत्पद्यते ॥२४८॥ अणंतकालमुक्कोसं, वासपुहुत्तं जहन्नयं । आणयाइदेवाणां, गेविज्जाणं तु अंतरं ॥ २४९॥ व्याख्या-आनतादीनां नवमदेवलोकादीनां तु पुनग्रैवेयकाणां नवानामिति तत्र वासिनां देवानां स्वस्थानाच्च्युत्वाऽन्यत्र संसारे निगोदे समुत्पन्नानां पश्चाच्च स्वस्थाने समागच्छतामुत्कृष्टं चेत् कालान्तरं भवेत्तदाऽनन्तं कालान्तरं भवेत्, जघन्यं च वर्षपृथक्त्वं नव वर्षाणि यावद्भवेदिति ॥ २४९॥ संखिज्जसागरुक्कोसं, वासपुहुत्तं जहन्नयं । अणुत्तराण य देवाणं, अंतरं तु वियाहियं ॥ २५० ॥ व्याख्या- अनुत्तराणां देवानां च्यवनं भूत्वा पुनश्चेत्तत्रैवोत्पत्तिः स्यात्तदोत्कृष्टमन्तरं सङ्ख्येयसागरोपमाणि, जघन्यं तु वर्षपृथक्त्वं नववर्षाणि यावत् ॥ २५०॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ यावि, विहाणाई सहस्ससो ॥२५१॥ व्याख्या - एतेषां चतुर्निकायानां देवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो भेदा भवन्ति ॥ २५१|| अथ निगमयति संसारत्था य सिद्धा य, इइ जीवा वियाहिया । रूविणो चेवरूवी य, अजीवा दुविहावि य ॥२५२॥ व्याख्या - संसारस्थाः सिद्धाश्च जीवा इत्यमुना प्रकारेण व्याख्याताः च पुना रूपिणोऽरूपिणश्च व्याख्याताः, द्विविधा अपि कथिताः ॥ २५२॥ इह कश्चिज्जीवाऽजीवविभक्ति श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येताऽतस्तदाशङ्काछेदायाह इइ जीवमजीवे य, सुच्चा सद्दहिऊण य । सव्वनयाणमणुमए, रमिज्जा संजमे मुणी ॥२५३॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy