________________
५९४
. श्रीउत्तराध्ययनदीपिकाटीका-२ ___ व्याख्या-अष्टमे ग्रैवेयके उत्कृष्टा त्रिंशत्सागरोपमाण्यायुःस्थितिः, जघन्या चैकोनत्रिंशत्सागरोपमाणि भवेत् ॥२४३॥
सागरा इक्वतीसं तु, उक्कोसेणं ठिइ भवे ।
नवमंमि जहन्नेणं, तीसइ सागरोवमा ॥२४४॥ व्याख्या-नवमे ग्रैवेयके उत्कृष्टायुःस्थितिरेकत्रिंशत्सागरोपमाणि, जघन्या च त्रिंशत्सागारोपमाणि भवेत् ॥२४४।।
अथ पञ्चानुत्तराणामायु:स्थितिमाह
तित्तीससागराइं, उक्कोसेण ठिइ भवे ।
चउसु वि विजयाइसु, जहन्ने ऐक्कतीसई ॥२४५॥ व्याख्या-विजयादिषु चतुर्वपि विमानेषु उत्कृष्टा त्रयस्त्रिंशत्सागरोपमायु:स्थितिः, जघन्येन चैकत्रिंशत्सागरोपमाणि भवेत् ॥२४५।।
अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा ।
महाविमाणे सव्वटे, ठिइ एसा वियाहिया ॥२४६॥ व्याख्या सर्वार्थे इति सर्वार्थसिद्धे महाविमाने अजघन्यं तथाऽनुत्कृष्टं यथा स्यात्तथा एकैव त्रयस्त्रिंशत्सागरोपमण्यायुःस्थितिर्भवेत् , इत्येषा स्थितिर्व्याख्याता ॥२४६।। अथ देवानां कायस्थितिमाह
जा चेव आउठिइ, देवाणं तु वियाहिया ।। ___ सा तेसिं कायठिइ, जहन्नमुकोसिया भवे ॥२४७॥
व्याख्या-या चैव देवानां चतुर्विधानामपि आयुःस्थितिर्जघन्योत्कृष्टा च व्याख्याता, सैव तेषां कायस्थितिर्भवेत् , यतो हि देवा मृत्वा देवा न भवन्ति ।।२४७।। अथ कालान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, देवाणं हुज्ज अंतरं ॥२४८॥ व्याख्या-अनन्तकालमुत्कृष्टमन्तरं देवानां, देवत्वाच्च्युत्वा तिर्यग्ननारकेषु भ्रान्त्वा पुनर्देवत्वे उत्पद्यमानानां स्यात् , तत्र देवानां नारकाणां चाऽनन्तः कालोऽन्तरं निगोदेष्वेव भवान्तरितानामुत्पाते ज्ञेयं, न शेषयोनिषु, तत्रानन्तकालभावात् । जघन्यतो देवानां च्युत्वा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org