________________
६०२
अथ निर्युक्ति:
जे किर भवसिद्धिया, परित्तसंसारिया य भविया य । किर पढंति धीरा, छत्तीसं उत्तरज्झाए ॥१॥ [ उ.नि./गा. ५५७ ] जे हुंति अभवसिद्धा, गठियसत्ता अणंतसंसारा ।
संकिलिकम्मा, अभव्विया उत्तरज्झाए ॥२॥ [ उ.नि./गा. ५५८ ] स्पष्टं गाथाद्वयं । किन्तु 'भविया' इति आक्षिप्तासन्नसिद्धयो भव्या रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः, भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः । तथाऽनन्तसंसारिणोऽभव्या वा, ते सङ्क्लिष्टकर्माण उत्तराध्यायेऽभव्या अयोग्याः ॥
I
श्रीउत्तराध्ययनदीपिकाटीका - २
तम्हा जिणपण्णत्ते, अणंतगमपज्जवेहि संजुत्ते ।
अज्झाए जहजोगं, गुरुप्यसाया अहिज्जिज्जा ॥३॥ [ उ.नि./गा. ५५९ ] तस्माज्जिनैः श्रुतजिनादिभिः प्रज्ञप्तान् प्ररूपितान् अनन्तैर्गमैरर्थभेदैः पर्यवैः शब्दार्थपर्यायैः संयुक्तान् अध्यायान् यथायोगं, योग-उपधानाद्युचितक्रिया, तदनतिक्रमेण उत्तराध्यायान् गुरूणां प्रसादादधीयेत, उत्तराध्ययनयोग्यतायां पठेदप्रमत्तः, एतदध्ययनार्थिनाऽवश्यं गुरवः प्रसाद्या इत्यर्थः ॥
जोगविही वहित्ता, एए जो लहइ सुत्तअत्थं वा ।
भासेइ य भवियजणो, सो पावइ निज्जरं विउलं ॥४॥ [ ] जस्साढत्ता एए, कहवि समप्पंति विग्घरहियस्स । सो लक्खिज्जइ भव्वो पुव्वरिसी एव भासंति ॥५॥ [ ]
संशयान्धतमसापहारिणी, सत्प्रकाशपरमोपकारिणी । उत्तराध्ययनदीपिका चिरं, प्रथ्यतां मुनिजनैर्निरन्तरं ॥ १ ॥ गच्छाधिपः श्रीजयकीर्त्तिसूरीश्वरो विधिपक्षगणप्रहृष्टः । सद्भावसारः परमार्थहेतु-मक्लृप्तवान् पुस्तकरत्नमेतत् ॥२॥ [ ]
Jain Education International 2010_02
॥ इति समाप्ता श्रीमदुत्तराध्ययनदीपिकाटीका गुरु श्रीमच्चारित्रविजयसुप्रसादात् ॥
For Private & Personal Use Only
www.jainelibrary.org