Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५८७ व्याख्या-एतेषां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो भेदा भवन्ति ॥२०५॥ अथ देवानाह
देवा चउव्विहा वुत्ता तं मे कित्तयओ सुण ।
भोमिज्ज वाणमंतर, जोइस वेमाणिया तहा ॥२०६॥ व्याख्या देवाश्चतुर्विधा उक्ताः, तान कीर्तयतो 'मे'शणत ! भौमेयकाः, व्यन्तराः, ज्योतिष्कास्तथा वैमानिकाः, भूमौ भवा भौमेयका भवनसानिनो देवाः, रत्न-प्रभापृथ्व्या अशीतिसहस्रोत्तरयोजनलक्षपिण्डाया उपर्येकं योजनसहस्रमवगाह्य, अधश्चैकं योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिउत्तरायोजनलक्षे भवनवासिनां चमरेन्द्रादिदेवानां भवनानि सन्ति १ 'वाणमंतर'त्ति आर्षत्वाद्विविधान्यन्तराणि निवासस्थानानि गिरिकन्दरविवरादीनि येषां ते व्यन्तराः २ ज्योतयन्तीति ज्योतींषि विमानानि, तन्निवासिनो देवा ज्योतिष्काः ३ विशेषण मानयन्त्युपभुज्जन्ति सुकृतिनो यानीति विमानानि, तेषु भवा वैमानिकाः ॥२०६॥ तदुत्तरभेदानाह
दसहा भवणवासी उ, अट्ठहा वणचारिणो ।
पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०७॥ व्याख्या-दशधा एव भवनवासिनः, अष्टधाश्च वनचारिणः, पञ्चविधा ज्योतिष्कास्तथा वैमानिकाच द्विविधाः ॥७॥ तानेव नामत आह
असुरा नागसुवन्ना, विज्जू अग्गी य आहिया ।
दीवोदही दिसा वाया, थणिया भवणवासिणो ॥२०८॥ व्याख्या-एते सर्वे कुमारशब्दान्ता ज्ञेयाः, यतस्ते कुमारवद्वेषभाषाशस्त्रयानवाहनक्रीडनानि कुर्वन्ति । यथा-असुराः १ नागाः २ सुपर्णाः ३ विद्युतः ४ अग्नयः ५ द्वीपाः ६ उदधयः ७ दिशः ८ वायवः ९ स्तनिताश्च १० व्याख्याताः ॥८॥ व्यन्तरनामान्याह
पिसाय भूया जक्खा य, रक्खसा किन्नरा य किंपुरिसा । महोरगा य गंधव्वा, अट्ठविहा वाणमंतरा ॥२०९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370