SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् ५८७ व्याख्या-एतेषां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो भेदा भवन्ति ॥२०५॥ अथ देवानाह देवा चउव्विहा वुत्ता तं मे कित्तयओ सुण । भोमिज्ज वाणमंतर, जोइस वेमाणिया तहा ॥२०६॥ व्याख्या देवाश्चतुर्विधा उक्ताः, तान कीर्तयतो 'मे'शणत ! भौमेयकाः, व्यन्तराः, ज्योतिष्कास्तथा वैमानिकाः, भूमौ भवा भौमेयका भवनसानिनो देवाः, रत्न-प्रभापृथ्व्या अशीतिसहस्रोत्तरयोजनलक्षपिण्डाया उपर्येकं योजनसहस्रमवगाह्य, अधश्चैकं योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिउत्तरायोजनलक्षे भवनवासिनां चमरेन्द्रादिदेवानां भवनानि सन्ति १ 'वाणमंतर'त्ति आर्षत्वाद्विविधान्यन्तराणि निवासस्थानानि गिरिकन्दरविवरादीनि येषां ते व्यन्तराः २ ज्योतयन्तीति ज्योतींषि विमानानि, तन्निवासिनो देवा ज्योतिष्काः ३ विशेषण मानयन्त्युपभुज्जन्ति सुकृतिनो यानीति विमानानि, तेषु भवा वैमानिकाः ॥२०६॥ तदुत्तरभेदानाह दसहा भवणवासी उ, अट्ठहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०७॥ व्याख्या-दशधा एव भवनवासिनः, अष्टधाश्च वनचारिणः, पञ्चविधा ज्योतिष्कास्तथा वैमानिकाच द्विविधाः ॥७॥ तानेव नामत आह असुरा नागसुवन्ना, विज्जू अग्गी य आहिया । दीवोदही दिसा वाया, थणिया भवणवासिणो ॥२०८॥ व्याख्या-एते सर्वे कुमारशब्दान्ता ज्ञेयाः, यतस्ते कुमारवद्वेषभाषाशस्त्रयानवाहनक्रीडनानि कुर्वन्ति । यथा-असुराः १ नागाः २ सुपर्णाः ३ विद्युतः ४ अग्नयः ५ द्वीपाः ६ उदधयः ७ दिशः ८ वायवः ९ स्तनिताश्च १० व्याख्याताः ॥८॥ व्यन्तरनामान्याह पिसाय भूया जक्खा य, रक्खसा किन्नरा य किंपुरिसा । महोरगा य गंधव्वा, अट्ठविहा वाणमंतरा ॥२०९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy