SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ५८८ श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-व्यन्तरा अष्टविधाः, यथा-पिशाचाः, भूताः, यक्षाः, राक्षसाः, किन्नराः, किम्पुरुषाः, महोरगाः, गन्धर्वाश्च ॥२०९॥ ज्योतिष्कानाह चंदा सूरा य नक्खत्ता, गहा तारागणा तहा । ठिया विचारिणो चेव, पंचहा जोइसालया ॥२१०॥ व्याख्या-ज्योतिरालयो गृहं येषां ते ज्योतिरालया ज्योतिष्का देवाः पञ्चधाः सन्ति, "ठिया' इति स्थिराः, मनुष्यक्षेत्रदहियोतिष्कास्ते पञ्च स्थिरा अचलस्वभावाः, मनुष्यक्षेत्रान्तर्वतिनो हि मेरुपर्वतस्य नित्यं प्रदक्षिणीकृत्य (वि)चारिणस्ते पञ्चधा ज्योतिष्का ज्ञेयाः, ते चामी-चन्द्राः, सूर्याः, नक्षत्राणि, ग्रहास्तथा तारागणाः प्रकीर्णाश्च ॥२१०॥ वैमानिकानाह वेमाणिया उ जे देवा, दुविहा ते वियाहिया । कप्पोवगा य बोधव्वा, कप्पाइया तहेव य ॥२११॥ व्याख्या-तु पुनर्वैमानिका देवास्ते द्विविधा व्याख्याताः, कल्पोपगाः कल्पन्ते इन्द्रसामानिकत्वादिभेदैर्देवा एष्विति कल्पाः, कल्पानुपगच्छन्तीति कल्पोपगाः सौधर्माद्याः, कल्पादतीतास्तदुपरिवर्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीताः, नवग्रैवेयकपञ्चानुत्तरविमानस्थाः, तथैव च ॥२११॥ कप्पोवगा बारसहा, सोहम्मिसाणगा तहा । सणंकुमारमाहिद्दा, बंभलोगा य लांतगा ॥२१२॥ व्याख्या-कल्पोपगा देवा द्वादशविधाः, यथा-सौधर्मगाः, ईशानगाः, तथा सानत्कुमाराः, माहेन्द्राः ब्राह्मलोकाः, लान्तकाः ॥२१२॥ महासुक्क सहस्सारो, आणया पाणया तहा । आरणा अच्चुया चेव, इइ कप्पोवगा सुरा ॥२१३॥ व्याख्या-महाशुक्राः, सहस्त्राराः, आणताः, प्राणताः, तथा आरणाः, अच्युताश्च, इत्येवं प्रकाराः कल्पोपगताः सुरा ज्ञेयाः ॥२१३।। कप्पाईया य जे देवा, दुविहा ते वियाहिया । गेविज्जाणुत्तरा चेव, गेविज्जा नवविहा तहिं ॥२१४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy