________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५८९ व्याख्या-पुनर्ये कल्पातीता देवास्ते द्विविधा व्याख्याताः, ग्रैवेयका अनुत्तराश्च, तत्रापि ग्रैवेयका नवविधाः सन्ति । तत्र ग्रीवेव ग्रीवा, लोकपुरुषस्य त्रयोदशरज्जूपरिवर्ती प्रदेशः, तस्मिन्निविष्टतयाऽतिभ्राजिष्टतया च, तदाभरणभूता ग्रैवेया देवावासास्तस्मिन्निवासिनो देवा अपि ग्रैवेयाः, न विद्यन्ते उत्तराः प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः ॥२१४॥
हिट्ठिमा हिट्ठिमा चेव, हिट्ठिमा मज्झिमा तहा ।
हिट्ठिमा उवरिमा चेव, मज्झिमा हिट्ठिमा तहा ॥२१५॥ व्याख्या-उपरितनषट्कापेक्षया प्रथमेषु अधस्तना अधस्तनाः प्रथमग्रैवेयकदेवाः १ अधस्तनाश्च मध्यमाश्च अधस्तनामध्यमाः २ तथा अधस्तनोपरितनाः ३ मध्यमाधस्तनाः ४ ॥२१५॥
मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा तहा ।
उवरिमा हिट्ठिमा चेव, उवरिमा मज्झिमा तहा ॥२१६॥ व्याख्या-मध्यमामध्यमाः ५ मध्यमोपरितनाः ६ उपरितनाअधस्तनाः ७ उपरितनामध्यमाः ८ ॥२१६॥
उवरिमा उवरिमा चेव, इइ गेविज्जगा सुरा । व्याख्या-च पुनरुपरिमोपरिमा उपरिस्थत्रिकापेक्षया उपरिमा उपरिमा नवग्रैवेयकदेवा, इत्यमुना प्रकारेण नवग्रैवेयकदेवा व्याख्याताः । अथानुत्तरविमानान्याह
विजया वैजयंता य, जयंता अपराजिता ॥२१७॥ विजया विजयविमानवासिनः, एवं वैजयन्ताः, जयन्ताः, अपराजिताश्च ॥२१७।।
सव्वट्ठसिद्धगा चेव, पंचहाणुत्तरा सुरा ।
इइ वेमाणिया एए, णेगहा एवमाइयो ॥२१८॥ व्याख्या-तथा सर्वार्थसिद्धिकाः, इत्यमुना प्रकारेण पञ्चधा अनुत्तरा देवा एवमादिका व्याख्याता, इत्यादयोऽनेकविधा अनेकविमानापेक्षया ते सन्ति ॥२१८॥
लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥२१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org