________________
५९०
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-ते सर्वे देवा लोकस्यैकदेशे परिकीर्तिताः इतोऽनन्तरं तेषां चतुर्विधं कालविभागं वक्ष्ये ॥२१९।।
संतई पप्प णाइया, अपज्जवसिया वि य ।
ठिई पडुच्च साइया, सपज्जवसिया वि य ॥२२०॥ व्याख्या-सन्ततिं प्राप्य तेऽनादयोऽपर्यवसिताश्च सन्ति, स्थिति कायस्थिति च प्रतीत्य ते सादयः सपर्यवसिताश्च सन्ति ।।२२०॥
साहियं सागरं इक्कं, उक्कोसेणं ठिड् भवे ।।
भोमिज्जाण जहन्नेणं, दसवाससहस्सिया ॥२२१॥ व्याख्या-भवनपतिदेवानामुत्कृष्टेनायुःस्थितिः साधिकं सागरोपममस्ति, जघन्येन च दशवर्षसहस्राणि ॥२२१॥
पलिओवममेगं तु, उक्कोसेणं ठिइ भवे ।
वंतराणं जहन्नेणं, दसवाससहस्सिया ॥२२२॥ व्याख्या-व्यन्तराणामुत्कृष्टेनैकं पल्योपममायुःस्थितिर्भवेत् , जघन्येन च दशवर्षसहस्राणि ॥२२२॥
पलिओवमं तु एगं, वासलक्खेण साहियं ।
पलिओवमट्ठभागो, जोइसेसु जहन्निया ॥२२३॥ व्याख्या-ज्योतिष्काणामुत्कृष्टायु:स्थितिवर्षलक्षसाधिकमेकं पल्योपमं, जघन्या च पल्योपमस्याष्टमो भागो ज्ञेयः ॥२२३।।
दो चेव सागराइं, उक्कोसेण ठिड् भवे ।
सोहम्मंमि जहन्नेणं, एगं च पलिओवमं ॥२२४॥ व्याख्या-सौधर्मे देवलोके द्वे सागरोपमे उत्कृष्टायुःस्थितिः, जघन्या चैक पल्योपमम् ॥२२४॥
सागरा साहिया दुन्नि, उक्कोसेणं ठिइ भवे । ईसाणंमि जहन्नेणं, साहियं पलिओवमं ॥२२५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org