________________
५८६
तीसइ पनरसविहा, अट्ठवीसइविहा तहा । संखा उ कमसो तेसिं, इइ एसा वियाहिया ॥ १९९॥
व्याख्या–तत्राऽकर्मभूमयस्त्रिंशद्विधाः, कर्मभूमयश्च पञ्चदशविधाः, अन्तरद्वीपाश्चाष्टाविंशतिविधा:, इति तेषां क्रमेणैषा सङ्ख्या व्याख्याता । विस्तरस्तु नवतत्त्वविवरणतो ज्ञेयः ॥ १९९॥
संमुच्छिमाण एसेव, भेओ होइ आहिओ ।
लोगस्सेगदेसंमि, ते सव्वे वियाहिया ॥ २००॥
व्याख्या- सम्मूच्छिमानां हि एष एव भेदः, यत्कर्मभूम्यादिगर्भजानामेव वान्तश्लेष्मादौ स्युः, ते चाङ्गुलाऽसङ्ख्येयभागमात्रावगाहनाः सर्वेऽपि लोकैकदेशे व्याख्याताः ॥ २००॥ संत पप्पणाइया, अपज्जवसिया वि य ।
ठिझं पडुच्च साइया, सपज्जवसिया वि य ॥२०१॥ व्याख्या–सन्ततिं प्राप्य ते सम्मूच्छिमा गर्भजाश्च मनुष्या अनादयोऽपर्यवसिताश्च सन्ति स्थितिं प्रतीत्य च सादयः सपर्यवसिताश्च सन्ति ॥ २०१ ॥ पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया ।
आउठिई मणुआणं, अंतोमुहुत्तं जहन्निया ॥ २०२॥ व्याख्या - गर्भजानां मनुजानां त्रीणि पल्योपमान्युत्कृष्टाऽायुः स्थितिः, जघन्या चान्तर्मुहूर्त्तं व्याख्याता ॥ २०२॥
पलिओमाइं तिन्नि उ, उक्कोसेण वियाहिया । पुव्वकोडिपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥ २०३ ॥ कायठिइ मणुआणं, अंतरं तेसिमं भवे ।
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ॥ २०४॥
व्याख्या–मनुजानां गर्भजानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकानि उत्कृष्टा कायस्थितिर्व्याख्याता, जघन्यिका चान्तर्मुहूर्त्तं यावद् व्याख्याता, चान्तरमुत्कृष्टमनन्तकालं, जघन्यं चान्तर्मुहूर्तं ज्ञेयम् ॥ २०३ || २०४ ||
तेषां कालस्य
श्रीउत्तराध्ययनदीपिकाटीका - २
एएसिं वण्णओ चेव गंधओ सफासओ । संठाणादेसओ यावि, विहाणाई सहस्ससो ॥ २०५ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org