________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५८५ व्याख्या-सन्ततिं प्राप्य तेऽनादयोऽपर्यवसिताश्च सन्ति, स्थितिं प्रतीत्य च सादयः सपर्यवसिताश्च ॥१९२।।
पलिओवमस्स भागो, असंखिज्जइमो भवे ।
आउठिई खहयराणं, अंतोमुहत्तं जहन्निया ॥१९३॥ व्याख्या-खचराणामायुःस्थिति पल्योपमस्याऽसङ्ख्येयतमो भागो भवति, जघन्यिका चायु:स्थितिरन्तर्मुहूर्तं भवति ॥१९३॥
असंखभावो पलियस्स, उक्कोसेण उ साहिया । पुव्वकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥१९४॥ कायठिइ खहयराणं, अंतरं तेसिमं भवे ।
अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं ॥१९५॥ व्याख्या-खचराणां कायस्थितिरुत्कृष्टा पल्योपमस्याऽसङ्ख्येयतमो भागः पूर्वकोटिपृथक्त्वेन साधिकश्च भवति, जघन्यिका चान्तर्मुहूर्तं भवति । तेषां कालान्तरं चोत्कृष्टमनन्तकालं यावद्भवति, जघनन्यतश्चान्तर्मुहूर्तं भवति ॥१९४।१९५॥
एएसिं वन्नओ चेव गंधओ रसफासओ ।
संठाणादेसओ यावि, विहाणाइं सहस्ससो ॥१९६॥ व्याख्या-एतेषां खचराणां वर्णतो गन्धतो रसतः स्पर्शत: संस्थानादेशतश्चापि सहस्त्रशो भेदा भवन्ति ॥१९६।। मनुजानाह
मणुया दुविहभेया उ, तं मे कियत्तओ सुण ।
संमुच्छिमा य मणुया, गब्भवक्कंतिया तहा ॥१९७॥ व्याख्या-मनुजा द्विविधभेदाः सन्ति, तान् कीर्तयतो 'मे' शृणुत ! सम्मूच्छिमा मनुष्यास्तथा गर्भव्युत्क्रान्तिकाश्च ॥१९७॥
गब्भववंतिया जे उ, तिविहा ते वियाहिया ।
अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥१९८॥ व्याख्या-ये तु गर्भव्युत्क्रान्तिकास्ते मनुष्यास्त्रिविधा व्याख्याताः, अकर्मभूमाः कृष्यादिकर्मरहितभूमौ भवाः, कर्मभूमास्तथाविधकर्मयुतभूमौ भवाः, तथान्तरमब्धिमध्यं, तत्र द्वीपा अन्तरद्वीपास्तेषु जाता अन्तरद्वीपजाश्च ॥१९८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org