________________
५८४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-स्थलचराणां स्वकीये काये एव समुत्पद्यमानानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकानि उत्कृष्टा कायस्थितिर्व्याख्याता, जघन्यिका चान्तर्मुहूर्तमुक्ता। यतो हि त्रिपल्योपमायुषः स्थलचराः पूर्वकोट्यायुषां सप्ताष्टभवग्रहणानि कुर्वन्ति, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवस्याऽसम्भवोऽस्ति ॥१८७॥
कायठिइ थलयराणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं । विजढम्मि सए काए, थलयराणं तु अंतरं ॥१८८॥ एएसिं वण्णओ चेव, गंधओ रसफासओ ॥
संठाणभेयओ यावि, विहाणाइं सहस्ससो ॥१८९॥ व्याख्या-स्थलचराणां स्वकीये काये त्यक्ते सति यदि ते वनस्पत्यादिषूत्पद्य पुनः स्थलचरेष्वायान्ति तदोत्कृष्टमनन्तकालस्यान्तरं भवति, जघन्यतश्चान्तर्मुहूर्त्तकालस्यान्तरं भवति, एतेषां वर्णगन्धरसस्पर्शसंस्थानभेदतश्चापि सहस्रशो भेदाः सन्ति ॥१८९।। अथ खेचरानाह
चम्मे उ लोमपक्खी य, तइया समुग्गपक्खीया ।
विययपक्खी य बोद्धव्वा, पक्खिणो य चउव्विहा ॥१९०॥ व्याख्या-पक्षिणश्चतुर्धाः, चर्मपक्षिणः, रोमपक्षिणः, समुद्गपक्षिणः, विततपक्षिणश्च। तत्र चर्मपक्षिणश्चर्मचटकाद्याः, चर्मरूपा एव हि तेषां पक्षाः, रोमप्रधानाः पक्षास्तद्वन्तो रोमपक्षिणो हंसाद्याः, समुद्गपक्षिणः समुद्गकाकारपक्षवन्तस्ते च मानुषोत्तराबहिर्दीपवर्तिनः, विततपक्षिणो ये सर्वदा विस्तरिताभ्यामेव पक्षाभ्यामासते ॥१९०॥
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१९१॥ व्याख्या-ते सर्वे खचरा लोकैकदेशे, तिर्यग्लोके सन्ति, न च सर्वत्र व्याख्याताः, इतोऽनन्तरं तेषां चतुर्विधं कालविभागं वक्ष्ये ॥१९१॥
संतई पप्प णाइया, अपज्जवसिया वि य । ठिई पडुच्च साइया, सपज्जवसिया वि य ॥१९२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org