________________
५८३
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
एगखुरा दुखुराओ, गंडीपयसणप्पया ।
हयमाइ गोणमाइ, गयमाइ सीहमाइणो ॥१८२॥ व्याख्या-एकखुराः, एकोऽहूंयः खुरो येषां ते एकखुरा हयाद्याः, एवं द्विखुरा गवाद्याः, गण्डी पद्मकर्णिका तद्वद्वत्ततया पदा येषां ते गण्डीपदा गजाद्याः, सनखपदाः सिंहाद्याश्च ॥१८२।। परिसर्पानाह
भुरोरगपरिसप्पा, परिसप्पा दुविहाहिया ।
गोहाई अहिमाईया, इक्विक्काणेगहा भवे ॥१८३॥ व्याख्या-परिसर्पा जीवा द्विविधाः, भुजपरिसर्पा उर:परिसर्पाश्च, तत्र गोधादयो भुजपरिसर्पाः, अह्यादयश्चोर:परिसर्पाः, एते चैकेपि अनेकधा भवेयुः ॥१८३।। _क्षेत्रविभागमाह
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१८४॥ व्याख्या-ते सर्वे स्थलचरा लोकैकदेशे, न च सर्वत्र व्याख्याताः, इतोऽनन्तरं तेषां चतुर्विधं कालविभागं वक्ष्ये ॥१८४।।
संतई पप्प णाइया, अपज्जवसिया वि य ।।
ठिई पडुच्च साइया, सपज्जवसिया वि य ॥१८५॥ व्याख्या-सन्ततिं प्राप्य तेऽनादयोऽपर्यवसिताश्च, स्थितिं च प्रतीत्य सादयः सपर्यवसिताश्च सन्ति ॥१८५।।
पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया ।
आउठिई थलयराणं, अंतोमुहुत्तं जहन्निया ॥१८६॥ व्याख्या-स्थलचराणामायुःस्थितिरुत्कृष्टा त्रीणि पल्योपमानि व्याख्याता, जघन्यिका चान्तर्मुहूर्तम् ॥१८६॥
पलिओवमाइं तिन्नि उ, उक्कोसेणं तु साहिया । पुव्वकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥१८७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org