Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 299
________________ ५८४ श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-स्थलचराणां स्वकीये काये एव समुत्पद्यमानानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकानि उत्कृष्टा कायस्थितिर्व्याख्याता, जघन्यिका चान्तर्मुहूर्तमुक्ता। यतो हि त्रिपल्योपमायुषः स्थलचराः पूर्वकोट्यायुषां सप्ताष्टभवग्रहणानि कुर्वन्ति, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवस्याऽसम्भवोऽस्ति ॥१८७॥ कायठिइ थलयराणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं । विजढम्मि सए काए, थलयराणं तु अंतरं ॥१८८॥ एएसिं वण्णओ चेव, गंधओ रसफासओ ॥ संठाणभेयओ यावि, विहाणाइं सहस्ससो ॥१८९॥ व्याख्या-स्थलचराणां स्वकीये काये त्यक्ते सति यदि ते वनस्पत्यादिषूत्पद्य पुनः स्थलचरेष्वायान्ति तदोत्कृष्टमनन्तकालस्यान्तरं भवति, जघन्यतश्चान्तर्मुहूर्त्तकालस्यान्तरं भवति, एतेषां वर्णगन्धरसस्पर्शसंस्थानभेदतश्चापि सहस्रशो भेदाः सन्ति ॥१८९।। अथ खेचरानाह चम्मे उ लोमपक्खी य, तइया समुग्गपक्खीया । विययपक्खी य बोद्धव्वा, पक्खिणो य चउव्विहा ॥१९०॥ व्याख्या-पक्षिणश्चतुर्धाः, चर्मपक्षिणः, रोमपक्षिणः, समुद्गपक्षिणः, विततपक्षिणश्च। तत्र चर्मपक्षिणश्चर्मचटकाद्याः, चर्मरूपा एव हि तेषां पक्षाः, रोमप्रधानाः पक्षास्तद्वन्तो रोमपक्षिणो हंसाद्याः, समुद्गपक्षिणः समुद्गकाकारपक्षवन्तस्ते च मानुषोत्तराबहिर्दीपवर्तिनः, विततपक्षिणो ये सर्वदा विस्तरिताभ्यामेव पक्षाभ्यामासते ॥१९०॥ लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१९१॥ व्याख्या-ते सर्वे खचरा लोकैकदेशे, तिर्यग्लोके सन्ति, न च सर्वत्र व्याख्याताः, इतोऽनन्तरं तेषां चतुर्विधं कालविभागं वक्ष्ये ॥१९१॥ संतई पप्प णाइया, अपज्जवसिया वि य । ठिई पडुच्च साइया, सपज्जवसिया वि य ॥१९२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370