Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 495 // एकत्वभावना सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्यं- तथ्यम्, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं श्रुतस्कन्धः१ यथोक्तानुष्ठानाद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा ओजः रागद्वेषरहितः, तथा तीर्णः संसारसागरम्, भाविनि अष्टमाध्ययनं विमोक्षम्, भूतवदुपचारात्तीर्णवत्तीर्ण इत्यर्थः, तथा छिन्ना अपनीता कथं कथमपि या कथा रागकथादिका विकथारूपा येन स छिन्न षष्ठोद्देशकः कथंकथः, यदिवा कथमहमिति मरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथंकथः, दुष्करानुष्ठान- सूत्रम् 219 विधायी हि कथंकथीभवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इता ज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, यदिवाऽतीता:-सामस्त्येनातिक्रान्ता: अर्थाः-प्रयोजनानि यस्य स तथा, उपरतव्यापार इत्यर्थः, तथा आसमन्तादतीव इतो- गतोऽनाद्यनन्ते संसारे आतीत: न आतीत: अनातीत: अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्य विधिना त्यक्त्वा प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं- प्रतिक्षणविशरारुं कार्य कर्मवशाहीतमौदारिकं शरीरं त्यक्त्वा, तथा संविधूय परीषहोपसर्गान् प्रमथ्य विरूपरूपान्। नानाप्रकारान् सोढ़ा अस्मिन् सर्वज्ञप्रणीत आगमे विस्रम्भणतया विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवसायेन भैरवंभयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवान्- अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि / तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह- तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि, न केवलं कालपर्यायेणेत्यपिशब्दार्थः, तस्य कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आह च-सेविक 8 // 495 // तत्थ वियंतिकारए इत्यादि पूर्ववद्गतार्थम्, // 219 // षष्ठोद्देशकः समाप्तः।।
Loading... Page Navigation 1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586