Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 513 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशकः नियुक्ति: 278-281 उपसर्गसहिष्णुता वीरध्यानम् नि०- किं पुण अवसेसेहिंदुःक्खक्खयकारणा सुविहिएहिं / होइन उज्जमियव्वं सपच्चवायंमि माणुस्से? // 278 // गाथात्रयमप्युत्तानार्थम् / / 276-278 // अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह नि०-चरिया 1 सिज्जा य 2 परीसहा य 3 आतंकिते तिगिच्छा 4 य। तवचरणेणऽहिगारो चउसुद्देसेसु नायबो॥२७९॥ चरणं शर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः१, द्वितीयोद्देशके त्वयमर्थाधिकारः, तद्यथा- शय्या- वसति:साच यादृग्भगवत आसीत् तादृग्वक्ष्यते 2, तृतीये त्वयमर्थाधिकारः- मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते 3, चतुर्थे / त्वयमर्थाधिकारः, तद्यथा-आतङ्किते क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेति 4, तपश्चरणाधिकारस्तु चतुर्ध्वप्युद्देशकेष्वनुयायीति गाथार्थः॥२७९ // निक्षेपस्त्रिधा- ओघनिष्पन्नो नामनिष्पन्न:सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्ने / निक्षेपेऽध्ययनम्, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति / न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह नि०-नामंठवणुवहाणंदव्वे भावे य होइ नायव्वं / एमेव य सुत्तस्सवि निक्खेवो चउव्विहो होइ॥२८०।। नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य यत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः // 280 // तत्र सुगमनामस्थापनाव्युदासेन द्रव्याधुपधानप्रतिपादनायाह नि०-दव्वुवहाणंसयणे भावुवहाणं तवो चरित्तस्स / तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं // 281 // // 513 //
Loading... Page Navigation 1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586