Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 557
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 519 // उपसर्ग वीरध्यानम् सूक्ष्मानि तु सूक्ष्मसम्पराय इति, तदन्ते च ज्ञानावरणीयादीनां षोडशप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहूर्त श्रुतस्कन्धः१ स्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरादशकं दर्शनावरणचतुष्कं च क्षपयित्वा नवममध्ययनं उपधानश्रुतं, निरावरणज्ञानदर्शनसमन्वित: केवली भवति, स च सातावेदनीयमेवैकं बध्नाति यावत्सयोग इति, स चान्तर्मुहर्त देशोनां प्रथमोद्देशकः पूर्वकोटिंवा यावद्भवति, ततोऽसावन्तर्मुहूर्तावशेषमायुर्ज्ञात्वा वेदनीयंच प्रभूततरमतस्तयोः स्थितिसाम्यापादनार्थं समुद्धातमेतेन नियुक्ति: 283 क्रमेण करोति, तद्यथा- औदारिककाययोगी आलोकान्तादूर्वाध:शरीरपरिणाहप्रमाणं प्रथमसमये दण्डं करोति, सहिष्णुता पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवौदारिककार्मणशरीरयोगी कपाटवत्कपाटं विधत्ते, तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्मणशरीरयोगी मन्थानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्थान्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरनेनैव क्रमेण पश्चानुपूर्व्या समुद्धातावस्थां चतुभिरेव समयैरुपसंहरंस्तव्यापारवांस्तत्तद्योगोभवति, केवलं षष्ठसमये मन्थानमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्धातं संहृत्य प्रत्यर्प्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा-पूर्वं मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्ति चतुर्थं / शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्तं यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासुचापरप्रकृतिषु सङ्कामयन् क्षपयंश्च तावद्गतो यावविचरमसमयम्, तत्र च द्विचरमसमये देवगतिसहगता: कर्मप्रकृती: क्षपयति, ताश्चेमा:- देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्ग

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586