Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रुतस्कन्धः१ नवममध्ययन श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 537 // तच्छरीरमप्यनगारो व्युत्सृज्याथ ग्रामकण्टाकान् नीचजनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतया निर्जरामभिसमेत्यज्ञात्वाऽध्यासयति- अधिसहते / / 87 // कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह- नागो हस्ती यथाऽसौ संग्राममूर्द्धनिक उपधानश्रुतं, परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत् किं च-तत्र लाढेषु . तृतीयोद्देशकः विरलत्वाद्वामाणां क्वचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता // 88 // किं च सूत्रम् (अनुष्टुप) उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं / पडिनिक्खमित्तु लूसिंसु एयाओ परंपलेहित्ति।सू०गा०८९॥ हयपुवो तत्थ दण्डेण 89-92 अदुवा मुट्ठिणा अदु कुन्तफलेण / अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिंसु॥सूगा०९०॥ मंसाणि छिन्नपुवाणि उटुंभिया उपसर्ग परिसहाः एगया कायं / परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु // सू०गा० 91 / उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु / वोसट्ठकाए पणताऽऽसी दुक्खसहे भगवं अपडिन्ने।सूगा०९२॥ उपसङ्कामन्तं भिक्षायै वासाय वा गच्छन्तम्, किंभूतं?- अप्रतिज्ञं नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्वामात्प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः- इतोऽपि स्थानात्परं दूरतरं स्थानं पर्येहि गच्छेति // 89 // किंच-8 तत्र ग्रामादेर्बहिर्व्यवस्थितः पूर्वं हतो हतपूर्वः, केन?- दण्डेनाथवा मुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन-घटखपरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः- पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः // 90 // किं च- मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य- आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीषहाश्च भगवन्तमलुञ्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति // 91 // किंच- भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ निहतवन्तः क्षिप्तवन्तः, अथवा आसनात् गोदोहिकोत्कुटुकासनवीरासनादिकात् स्खलितवन्तो निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकाय: परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं // 537 //
Loading... Page Navigation 1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586