Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 574
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 536 // द्रष्टव्यः, भक्तमपितत्र रूक्षदेश्यं रूक्षकल्पमन्तप्रान्तमितियावत्, ते चानार्यतया प्रकृतिक्रोधना: कर्पासाद्यभावाच्च तृणप्रावरणा: श्रुतस्कन्ध:१ सन्तो भगवति विरूपमाचरन्ति, तथा तत्र कुक्कुराः श्वानस्ते च जिहिंसुः, उपरि च निपेतुरिति / / 83 // किंच- अल्प: स्तोक:स नवममध्ययन उपधानश्रुतं, जनो यदि परं सहस्राणामेको यदिवा नास्त्येवासाविति यस्तान् शुनो लूषकान् दशतो निवारयति निषेधयति, अपि तु तृतीयोद्देशकः दण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति, कथं नु नामैनं श्रमणं कुक्कुरा: श्वानो दशन्तु- भक्षयन्तु?, तत्र चैवंविधे। | (अनुष्टुप्) जनपदे भगवान् षण्मासावधिं कालं स्थितवानिति // 84 // किंच 85-88 एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी / लळिंगहाय नालियं समणा तत्थ य विहरिंसु / / सू०गा० 85 // एवंपि तत्थ उपसर्ग परिसहाः विहरन्ता पुट्ठपुव्वा अहेसि सुणिएहिं / संलुश्चमाणा सुणएहिं दुच्चराणि तत्थ लाढेहिं / / सूगा० 86 // निहाय दण्डं पाणेहिं तं कायं वोसज्जमणगारे। अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा॥सूगा०८७॥नागो संगामसीसे वा पारए तत्थ से महावीरे। एवंपि तत्थ लाढेहिं अलद्धपुवोवि एगया गामो॥सूगा०८८॥ इदृक्षः पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् भूयः पौनःपुन्येन विहृतवान्, तस्यां च वज्रभूमौ बहवो जनाः। परुषाशिनो- रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणा: शाक्यादयो। यष्टिं- देहप्रमाणां चतुरङ्गलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहुरिति // 85 / / किं च- एवमपि यष्ट्यादिकया सामग्र्या श्रमणा विहरन्तः स्पृष्टपूर्वा आरब्धपूर्वाः श्वभिरासन्, तथा संलुच्यमाना इतश्चेतश्च भक्ष्यमाणा:श्वभिरासन्, // 536 // दुर्निवारत्वात्तेषाम्, तत्र तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि- ग्रामादीनीति // 86 // तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह- प्राणिषु यो दण्डनाद्दण्डो- मनोवाक्कायादिकस्तं भगवान् निधाय त्यक्त्वा, तथा

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586