________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 513 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशकः नियुक्ति: 278-281 उपसर्गसहिष्णुता वीरध्यानम् नि०- किं पुण अवसेसेहिंदुःक्खक्खयकारणा सुविहिएहिं / होइन उज्जमियव्वं सपच्चवायंमि माणुस्से? // 278 // गाथात्रयमप्युत्तानार्थम् / / 276-278 // अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह नि०-चरिया 1 सिज्जा य 2 परीसहा य 3 आतंकिते तिगिच्छा 4 य। तवचरणेणऽहिगारो चउसुद्देसेसु नायबो॥२७९॥ चरणं शर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः१, द्वितीयोद्देशके त्वयमर्थाधिकारः, तद्यथा- शय्या- वसति:साच यादृग्भगवत आसीत् तादृग्वक्ष्यते 2, तृतीये त्वयमर्थाधिकारः- मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते 3, चतुर्थे / त्वयमर्थाधिकारः, तद्यथा-आतङ्किते क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेति 4, तपश्चरणाधिकारस्तु चतुर्ध्वप्युद्देशकेष्वनुयायीति गाथार्थः॥२७९ // निक्षेपस्त्रिधा- ओघनिष्पन्नो नामनिष्पन्न:सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्ने / निक्षेपेऽध्ययनम्, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति / न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह नि०-नामंठवणुवहाणंदव्वे भावे य होइ नायव्वं / एमेव य सुत्तस्सवि निक्खेवो चउव्विहो होइ॥२८०।। नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य यत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः // 280 // तत्र सुगमनामस्थापनाव्युदासेन द्रव्याधुपधानप्रतिपादनायाह नि०-दव्वुवहाणंसयणे भावुवहाणं तवो चरित्तस्स / तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं // 281 // // 513 //