________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्थः 1 // 514 // उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानम्, तत्पुनः शय्यादौसुखशयनार्थं शिरोऽवष्टम्भन- श्रुतस्कन्धः१ वस्तु, भावोपधान मिति भावस्योपधानं भावोपधानम्, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरम्, तेन हि नवममध्ययन उपधानश्रुतं, चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः // 281 // किं पुनः प्रथमोद्देशकः कारणं चारित्रोपष्टम्भकतया तपो भावोपधानमुच्यते इत्याह नियुक्तिः |282-283 नि०-जह खलु मइलं वत्थं सुज्झह उदगाइएहिं दवेहि। एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं / / 282 // उपसर्गयथे त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्रव्यैः / / सहिष्णुता वीरध्यानम् शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म शुद्धिमुपयातीति // 282 // अस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य तत्त्वभेदपर्यायैर्व्याख्ये तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कर्मापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयतिमाह नि०- ओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं / छयण भेयण फेडण डहणं धुवणं च कम्माणं // 283 // तत्रावधूननं- अपूर्वकरणेन कर्मग्रन्थेर्भेदापादनम्, तच्च तपोऽन्यतरभेदसामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादशसु / पदेष्वायोज्या, तथा धूननं भिन्नग्रन्थेरनिवर्तिकरणेन सम्यक्त्वावस्थानम्, तथा नाशनं कर्मप्रकृते: स्तिबुकसङ्कमेण प्रकृत्यन्तरगमनम्, तथा विनाशनं शैलेश्यवस्थायां सामस्त्येन काभावापादनम्, तथा ध्यापनं- उपशमश्रेण्यां कानुदयलक्षणं॥५१४ // विध्यापनम्, तथा क्षपणं अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्यभावापादनम्, तथा शुद्धिकर मित्यनन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनम्, तथा छेदनं उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहासजननम्, तथा भेदनं बादर