Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 553
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 515 // वीरध्यानम् सम्परायावस्थायां सज्वलनलोभस्य खण्डशो विधानम्, तथा फेडण न्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां श्रुतस्कन्धः 1 रसतस्त्र्यादिस्थानापादनम्, तथा दहनं केवलिसमूद्धातध्यानाग्निना वेदनीयस्य भस्मसात्करणम्, शेषस्य च दग्धरज्जु नवममध्ययनं उपधानश्रुतं, तुल्यत्वापादनम्, तथा धावनं शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्मणोऽवस्था: प्रायश | प्रथमोद्देशकः उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्धातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, नियुक्ति: 283 उपसर्गतत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्य सहिष्णुता तरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमनेन क्रमेणोपशमयति,तद्यथा- अनन्तानुबन्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्ध साकारोपयोग्यन्त:कोटीकोटीस्थितिसत्कर्मा परिवर्त्तमानाः शुभप्रकृतीरेव बध्नन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या ह्रासयन् शुभानांचानन्तगुणवृद्ध्याऽनुभागंव्यवस्थापयन् पल्योपमासङ्ख्येयभागहीनमुत्तरोत्तरं / स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त विशुध्यमानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तौहूर्त्तिकम्, तद्यथायथाप्रवृत्तकरणमपूर्वकरणनिवृत्तिकरणंचेति, चतुर्युपशान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणसङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणम्, किमुक्तं भवति?-8 अपूर्वामपूर्वां क्रियांगच्छतीत्यपूर्वकरणम्, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पञ्चाप्यधिकारा यौगपद्येन पूर्वमप्रवृत्ताः प्रवर्त्तन्त इत्यपूर्वकरणम्, तथाऽनिवृत्तिकरणमित्यन्योन्यं नातिवर्त्तन्ते परिणामा // 515 // अस्मिन्नित्यनिवृत्तिकरणम्, एतदुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्य: परिणाम:, एवं द्वितीयादिष्वप्यायोज्यम्, अत्रापि पूर्वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभिस्त्रिभिरपिकरणैर्यथोक्त

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586