Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 516 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशकः नियुक्ति: 283 उपसर्गसहिष्णुता वीरध्यानम् क्रमेणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता द्रुघणादिभिर्हता न वाय्वादिभिः प्रसपणादिविकारभाग्भवति, एवं कर्मधूल्यपि विशुद्ध्युदकार्दीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिकं स्तोकं द्वितीयादिषुसमयेष्वसङ्खयेयगुणवृद्ध्योपशम्यमानमन्तर्मुहर्तेन सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा-क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यग्दृष्टयस्तिर्यञ्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थं प्रागुक्तं करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्तयन्नपवर्तयन् यावत्पल्योपमासङ्खयेयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्खयेयभागंबध्यमानासुमोहप्रकृतिषु प्रतिसमयं सङ्कामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिष्वसङ्खयेयगुणं एवं यावच्चरमसमये सर्वसङ्कमेणावलिकागतं मुक्त्वा सर्वं सङ्कामयति, आवलिकागतमपि स्तिबुकसङ्कमेण वेद्यमानास्वपरप्रकृतिषु सङ्कामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति / इदानीं दर्शनत्रिकोपशमना भण्यते- तत्र मिथात्वस्योपशमको मिथ्यादृष्टिर्वेदकसम्यग्दृष्टिा सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथात्वस्योपशमं कुर्वंस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाकेनानुभूयोपशान्तमिथ्यात्व: सन्नुपशमसम्यग्दृष्टिर्भवतीति।साम्प्रतं वेदकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्त्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्त्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तौहूर्तिकी करोति, इतरांत्वावलिकामात्राम्, ततः किञ्चिन्न्यूनमुहूर्त्तमात्रां स्थिति खण्डयित्वा बध्यमानानां प्रकृतीनां // 516 //
Loading... Page Navigation 1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586