Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 550
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 512 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशकः नियुक्तिः 275-277 उपसर्गसहिष्णुता वीरध्यानम् ॥अथ नवममध्ययनं उपधानश्रुताख्यम्॥ ॥प्रथमोद्देशकः॥ उक्तमष्टममध्ययनम्, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तराध्ययनेष्वष्टसुयोऽर्थोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतन्नवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयं-इहाभ्युद्यतमरणं त्रिप्रकारमभिहितम्, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृतसन्मार्गावतारं तथा, घातितघातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनंसमवसरणस्थं सत्त्वहिताय धर्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिषुराह___ नि०- जो जइया तित्थयरोसो तइया अप्पणो य तित्थम्मि।वण्णेइ तवोकम्म ओहाणसुयंमि अज्झयणे॥२७५॥ यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म व्यावर्णयतीत्ययं सर्वतीर्थकृतां कल्पः, इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति // किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपःकर्मोतान्यथेत्यारेकाव्युदासार्थमाह नि०- सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं। नवरंतु वद्धमाणस्स सोवसग्गंमुणेयव्वं // 276 // नि०- तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि। अणिगूहियबलविरिओ तवोविहाणंमि उज्जमइ॥२७७॥ // 512 //

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586