Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 506 // निर्वाहिणस्तत्तुल्य एव कर्मक्षयः, अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा अत्रापि श्रुतस्कन्धः 1 इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सर्वक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् // 31 // एतत्सामर्थ्याभावे अष्टममध्ययन विमोक्षम्, चैतत्कुर्यादित्याह- यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात्, ततः परिक्रामेत्- चङ्क:म्याद्यथानियमिते देशेऽकुटिलया / अष्टमोद्देशकः गत्या गतागतानि कुर्यात्, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत्, यथायतो यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि सूत्रम् (अनुष्टुप) परिक्लममियात् तद्यथा- निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात्, 33-36 तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् // 32 // किंच आनुपूर्वा विहारादिः आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए। कोलावासं समासज्ज, वितहं पाउरे सए॥सूगा० ३३॥जओ वजं समुप्पज्जे,न तत्थ अवलम्बए / तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए / सूगा० 34 / / अयं चाययतरे सिया, जो एवमणुपालए। सत्वगायनिरोहेऽवि, ठाणाओ नवि उब्भमे।सूगा० 35 // अयं से उत्तमे धम्मे, पुवट्ठाणस्स पग्गहे। अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे॥सू०गा०३६॥ आसीन: आश्रितः किं तत्?- मरणम्, किंभूतं?- अनीदृशं अनन्यसदृशमितरजनदुरध्यवसेयम्, तथाभूतश्च किं कुर्यादिति दर्शयति- इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्- प्रेरयेदिति, कोलाघुणकीटकास्तेषामावास: कोलावासस्तमन्तघुणक्षतमुद्देहिकानिचितं वा समासाद्य लब्ध्वा तस्माद्यद्वितथं- आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्- प्रकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् // 33 // इङ्गितमरणे चोदनामभिधाय यन्निषेध्यं तदर्शयितुमाह- यतो यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्र-गुरुत्वात्कर्म अवयं वा-पापं वा तत्समुत्पद्येत प्रादुष्प्यात्, न तत्र घुणक्षतकाष्ठादाव // 506 //
Loading... Page Navigation 1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586