________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 506 // निर्वाहिणस्तत्तुल्य एव कर्मक्षयः, अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा अत्रापि श्रुतस्कन्धः 1 इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सर्वक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् // 31 // एतत्सामर्थ्याभावे अष्टममध्ययन विमोक्षम्, चैतत्कुर्यादित्याह- यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात्, ततः परिक्रामेत्- चङ्क:म्याद्यथानियमिते देशेऽकुटिलया / अष्टमोद्देशकः गत्या गतागतानि कुर्यात्, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत्, यथायतो यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि सूत्रम् (अनुष्टुप) परिक्लममियात् तद्यथा- निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात्, 33-36 तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् // 32 // किंच आनुपूर्वा विहारादिः आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए। कोलावासं समासज्ज, वितहं पाउरे सए॥सूगा० ३३॥जओ वजं समुप्पज्जे,न तत्थ अवलम्बए / तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए / सूगा० 34 / / अयं चाययतरे सिया, जो एवमणुपालए। सत्वगायनिरोहेऽवि, ठाणाओ नवि उब्भमे।सूगा० 35 // अयं से उत्तमे धम्मे, पुवट्ठाणस्स पग्गहे। अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे॥सू०गा०३६॥ आसीन: आश्रितः किं तत्?- मरणम्, किंभूतं?- अनीदृशं अनन्यसदृशमितरजनदुरध्यवसेयम्, तथाभूतश्च किं कुर्यादिति दर्शयति- इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्- प्रेरयेदिति, कोलाघुणकीटकास्तेषामावास: कोलावासस्तमन्तघुणक्षतमुद्देहिकानिचितं वा समासाद्य लब्ध्वा तस्माद्यद्वितथं- आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्- प्रकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् // 33 // इङ्गितमरणे चोदनामभिधाय यन्निषेध्यं तदर्शयितुमाह- यतो यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्र-गुरुत्वात्कर्म अवयं वा-पापं वा तत्समुत्पद्येत प्रादुष्प्यात्, न तत्र घुणक्षतकाष्ठादाव // 506 //