________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 505 // समियं आहरे मुणी। तहावि से अगरिहे, अचले जेसमाहिए।सूगा०३०॥अभिक्कमे पडिक्कमे, सङ्कचए पसारए। कायसाहारण- श्रुतस्कन्धः१ ट्ठाए, इत्थं वावि अचेयणो।सूगा०३१॥परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए। ठाणेण परिकिलन्ते, निसीइजाय अंतसो अष्टममध्ययनं विमोक्षम्, ॥सूगा०३२॥ अष्टमोद्देशकः * हरितानि- दूर्वाङ्करादीनि तेषु न शयीत स्थण्डिलं मत्वा शयीत तथा सबाह्याभ्यन्तरमुपधिं व्युत्सृज्य- त्यक्त्वाऽनाहारः सन् सूत्रम् (अनुष्टुप्) स्पृष्टः परीषहोपसर्गः तत्र तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्- अधिसहेत // 29 // किं च-स ह्यनाहारतया / 29-32 मुनिर्लायमान इन्द्रियैः शमिनो भाव: शमिता-समता तां साम्यं वा आत्मन्याहरेद्-व्यवस्थापयेत् नार्तध्यानोपगतो भूयादिति, आनुपूर्वा विहारादिः यथासमाधानमास्ते, तद्यथा- सङ्कोचनिर्विण्णो हस्तादिकं प्रसारयेत् तेनापि निर्विण्ण उपविशेत् यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगी एव, किंभूत इति दर्शयति- अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्न चलतीत्यचल: सम्यगाहितं- व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः, भावाचलितश्चेगितप्रदेशे चमणादिकमपि कुर्यादिति॥३०॥ एतदर्शयितुमाह-प्रज्ञापकापेक्षयाऽभिमुखंक्रमणमभिक्रमणम्, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं- पश्चादभिमुखंक्रमणं प्रतिक्रमणमागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत्, तथा निष्पन्नो निषण्णो वा यथासमाधानं भुजादिकं सङ्कोचयेत्प्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति- कायस्य- शरीरस्य प्रकृतिपेलवस्य साधारणार्थम्, कायसाधारणाच्च तत्पीडाकृतायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितश्चित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भारोऽभिहित इति, नायं नियमः, सुविशुद्धाध्यवसायतया यथाशक्त्यारोपितभार