SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 504 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, अष्टमोद्देशकः सूत्रम् (अनुष्टुप) |29-32 आनुपूर्वाविहारादिः अधिसहेत // 26 // किं च-ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः विविक्तैः त्यक्तैः सद्भिर्ग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् धर्मशुक्लध्यानान्यतरोपेतः आयुःकालस्य मृत्युकालस्य पारग: पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासास्तावत्तद्विदध्याद्, एतन्मरणविधानकारी च सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणम्। साम्प्रतमिङ्गितमरणं श्लोका दिनोच्यते-तद्यथा- प्रगृहीततरकं चेदं प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम्, इद मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्च विशिष्टतरधृतिसंहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति?- द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य विजानतो गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अनापीङ्गितमरणे यत्संलेखनातृणसंस्तारादिकमभिहितं तत्सर्वं वाच्यम् // 27 // अयमपरो विधिरित्याह-अयं स इति सोऽयं अपरः अन्यो भक्तप्रत्याख्यानाद्भिन्न इङ्गितमरणस्यधर्मो विशेषोज्ञातपुत्रेण वीरवर्द्धमानस्वामिना सुष्ठाहित:- उपलब्धःस्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानम्, अनापीङ्गितमरणे प्रव्रज्यादिको विधिः संलेखना च पूर्ववष्टिव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेष:आत्मवर्जं प्रतिचार-अङ्गव्यापारं विशेषेण जह्यात्- त्यजेत् त्रिविधत्रिविधेने ति मनोवाक्कायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत्, स्वयमेव चोद्वर्त्तनपरिवर्तनं कायिकायोगादिकं विधत्ते // 28 // सर्वथा प्राणिसंरक्षणं पौनः पुन्येन विधेयमिति दर्शयतिमाह - हरिएसुन निवजिज्जा, थण्डिलं मुणिया सए। विओसिज्ज अणाहारो, पुट्ठो तत्थऽहियासए।सू०गा०२९॥ इन्दिएहिं गिलायन्तो, // 504 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy