________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 507 // वलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात्, तथा ततः तस्मादुत्क्षेपणापक्षेपणादेः काययोगाद्दुष्प्रणिहितवाग्योगादात- श्रुतस्कन्धः१ ध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेद्-उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेदितियावत्, तत्र च अष्टममध्ययनं विमोक्षम्, धृतिसंहननाद्युपेतोऽप्रतिकर्मशरीरःप्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थ- अष्टमोद्देशकः स्वरूपनिरूपणाहितमति: अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान् दुःखविशेषाननुकूलप्रतिकूलोपसर्ग- सूत्रम् (अनुष्टुप्) परीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोद्यतोमयैवैतदवद्यं कृतं सोढव्यंचेत्येतदध्यवसायी अध्यासयेद् 33-36 अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेते तदेवोपद्रवन्ति न पुनर्यजिघृक्षितं धर्मचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवे- आनुपूर्वा विहारादिः दिति // 34 // गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याह अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङभिविधौ सामस्त्येन यत आयत:, अयमनयोरतिशयेनायत आयततर: यदिवाऽयमनयोरतिशयेनात्तो- गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो दृढतर: स्याद्भवेत्, अत्रापि यदिङ्गितमरणे प्रव्रज्या-2 संलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरस्ततः किमिति दर्शयति यो भिक्षुः एवं उक्तविधिनैनं पादपोपगमनविधिमनुपालयेत् सर्वगात्रनिरोधेऽपि उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्धातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टगृद्धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेष: संस्तस्मात्स्थानात्- प्रदेशात् द्रव्यतो भावतोऽपि शुभा-॥५०॥ ध्यवसायस्थानान्न व्युद्धमेत्- न स्थानान्तरं यायात् // 35 // किं च- अय मित्यन्त:करणनिष्पन्नत्वात्प्रत्यक्षः उत्तमः प्रधानो 0 शरीरकमेतदेवोपद्रवन्ति न पुनर्जिघृक्षितं धर्माचरण (मु०)।