SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 508 // मरणविधिः सर्वोत्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति- पूर्वस्थानस्य प्रग्रह श्रुतस्कन्धः१ इति पञ्चम्यर्थे षष्ठी पूर्वस्थानाद्भक्तपरिज्ञेङ्गितमरणरूपात्प्रकर्षेण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि अष्टममध्ययनं विमोक्षम्, अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषिध्यते छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानश्छिद्यमानोवा विषम- अष्टमोद्देशकः पतितोवा तथैवास्तेन तस्मात्स्थानाच्चलति, चिलातपुत्रवत्, एतदेव दर्शयति-अचिरं स्थानम्, तच्चस्थण्डिलं तत्पूर्वविधिना सूत्रम् (अनुष्टुप) प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति,अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तम्, तच्च स्थानात्स्थाना 37-40 न्तरासंक्रमणम्, एतदेव दर्शयति- तिष्ठेत् सर्वगात्रनिरोधेऽपि स्थानान्तरासङ्कमणं कुर्यादित्यर्थः, कोऽसौ ?- माहणे त्ति। आनुपूर्वा विहारादिः साधुः, स हि निषण्णो निषण्ण ऊर्ध्वस्थितो वा निष्प्रतिकर्मा यद्यथानिक्षिप्तमङ्गमचेतन इव न चालयेदितियावत् // 36 // एतदेव प्रकारान्तरेण दर्शयितुमाह अचित्तं तुसमासज्ज, ठावए तत्थ अप्पगं। वोसिरे सव्वसो कायं, न मे देहे परीसहा॥सूगा० 37 // जावजीवं परीसहा, उवसग्गा इति सङ्ख्या। संवुडे देहभेयाए, इय पन्नेऽहियासए।सू०गा० ३८॥भेउरेसुन रज्जिज्जा, कामेसु बहुतरेसुवि / इच्छा लोभन सेविज्जा, धुववन्नंसपेहिया।सू०गा०३९॥सासएहिं निमन्तिजा, दिवमायंन सद्दहे। तंपडिबुज्झ माहणे, सव्वं नूमं विहूणिया॥सूगा० 40 // न विद्यते चित्तमस्मिन्नित्यचित्तं- अचेतनं जीवरहितमित्यर्थः, तच्च स्थण्डिलं फलकादि वा समासाद्य लब्ध्वा फलकेऽपि समर्थ: कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्प्रकम्पः कृतालोचनादिपरि-॥५०॥ कर्मा गुरुभिरनुज्ञातो व्युत्सृजेत्, सर्वश: सर्वात्मना कायं देहम्, व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत् 0 स्थानात्स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति- तिष्ठेत् सर्वगात्रानिरोधेऽपि, स्थाना० (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy