________________ विमोक्षम्, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 509 // सूत्रम् न मे देहे परीषहाः मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुत: परीषहाः?, यदिवा न मम देहे परीषहाः श्रुतस्कन्ध:१ अष्टममध्ययन सम्यक्रणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात्, अत: परीषहान् कर्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते // 37 // ते पुन: कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह- यावज्जीवं यावत्प्राणधारणं तावत्परीषहा उपसर्गाश्च सोढव्या | अष्टमोद्देशकः इत्येतत् सङ्ख्याय ज्ञात्वा तानध्यासयेदिति, यदिवा न मे यावज्जीवं परीषहोपसर्गा इत्येतत्सङ्घयाय- ज्ञात्वाऽधिसहेत, यदिवा (अनुष्टुप्) यावज्जीवमिति- यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्त |37-40 मल्पमेवेत्यत एतत्सङ्घयाय- ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो देहभेदाय शरीरत्यागायोत्थित इतिकृत्वा प्राज्ञः आनुपूर्वा विहारादिः उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत॥३८॥एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाह भेदनशीला भिदुरा:- शब्दादय: कामगुणास्तेषु प्रभूततरेष्वपिन रज्येत् न रागंयायात्, पाठान्तरं वा कामेसु बहुलेसुवि इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गाय॑मियात्, तथा इच्छारूपो लोभ इच्छालोभ:- चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ / निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवनिदानं न कुर्यादित्यर्थः, तथा चागमः- इहलोगासंसप्पओगे 1 परलोगासंसप्पओगे 2 जीवियासंसप्पयोगे 3 मरणासंसप्पयोगे 4 कामभोगासंसप्पयोगे 5 इत्यादि, वर्ण: संयमो मोक्षो वा स च सूक्ष्मो दुर्जेयत्वात्, पाठान्तरं वा- धुववन्नमि त्यादि, ध्रुव:- अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वती / 509 // यश:कीर्तिं पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति // 39 // किं च- शाश्वता- यावजीवमपरिक्षयात्प्रतिदिनदानाद्वाऑस्तैस्तथाभूतैर्विभवैः कश्चिन्निमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थं धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां