SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 510 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, अष्टमोद्देशक: सूत्रम् (अनुष्टुप्) आनुपूर्वाविहारादिः न श्रद्दधीत, तद्यथा- यदि कश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानर्द्धिदानतो निमन्त्रयेत्, तांच तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतदव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात्?, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, माहणे त्ति साधुः सर्वं अशेषं नूमं ति कर्म माया वा तत् तांवा विधूय अपनीय देवादिमायां बुध्यस्वेति क्रिया // 40 // किंच सव्वढेहिं अमुच्छिए, आउकालस्स पारए। तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥सू०गा० 41 // तिबेमि॥उद्देशः॥८-८॥ विमोक्षाध्ययनमष्टमं समाप्तम्॥८॥ सर्वे च तेऽर्थाश्च सर्वार्था:- पञ्चप्रकारा: कामगुणास्तत्सम्पादका वा द्रव्यनिचयास्तैस्तेषु वा अमूर्च्छितः-अनध्युपपन्न: आयु:कालस्य यावन्मानं कालमायुःसंतिष्ठते असौ आयुःकालस्तस्य पारं- आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसाय: स्वायु:कालन्तगः स्यादिति / तदेवं पादपोपगमनविधि परिसमापय्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतां पश्चार्द्धन दर्शयति- तितिक्षापरीषहोपसर्गापादितदुःखविशेषसहनं तत्त्रयाणामपि परमं- प्रधानमस्तीति ज्ञात्वा अवधार्य विमोहान्यतरं हित मिति विगतो मोहो येषु तानि विमोहानि- भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धित अभिप्रेतार्थसाधनादतो यथाशक्ति त्रयाणामन्यतरत्तुल्यबलत्वाद्यथावसरं विधेयम्, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, तुल्यफलत्वाद्यथावसरं विधेयम्, इतिरधिकार० (प्र०)। // 510 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy