SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 495 // एकत्वभावना सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्यं- तथ्यम्, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं श्रुतस्कन्धः१ यथोक्तानुष्ठानाद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा ओजः रागद्वेषरहितः, तथा तीर्णः संसारसागरम्, भाविनि अष्टमाध्ययनं विमोक्षम्, भूतवदुपचारात्तीर्णवत्तीर्ण इत्यर्थः, तथा छिन्ना अपनीता कथं कथमपि या कथा रागकथादिका विकथारूपा येन स छिन्न षष्ठोद्देशकः कथंकथः, यदिवा कथमहमिति मरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथंकथः, दुष्करानुष्ठान- सूत्रम् 219 विधायी हि कथंकथीभवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इता ज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, यदिवाऽतीता:-सामस्त्येनातिक्रान्ता: अर्थाः-प्रयोजनानि यस्य स तथा, उपरतव्यापार इत्यर्थः, तथा आसमन्तादतीव इतो- गतोऽनाद्यनन्ते संसारे आतीत: न आतीत: अनातीत: अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्य विधिना त्यक्त्वा प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं- प्रतिक्षणविशरारुं कार्य कर्मवशाहीतमौदारिकं शरीरं त्यक्त्वा, तथा संविधूय परीषहोपसर्गान् प्रमथ्य विरूपरूपान्। नानाप्रकारान् सोढ़ा अस्मिन् सर्वज्ञप्रणीत आगमे विस्रम्भणतया विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवसायेन भैरवंभयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवान्- अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि / तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह- तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि, न केवलं कालपर्यायेणेत्यपिशब्दार्थः, तस्य कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आह च-सेविक 8 // 495 // तत्थ वियंतिकारए इत्यादि पूर्ववद्गतार्थम्, // 219 // षष्ठोद्देशकः समाप्तः।।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy