________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 494 // प्राणिनो- द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानिदूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याय-अधस्तनोपरितनावश्यायविपद्धर्जिते, तथाऽल्पोदके- भौमान्तरिक्षोदकरहिते, अष्टमाध्ययनं विमोक्षम्, तथोत्तिङ्गपनकोदकमृत्तिकामधंटसन्तानरहिते, तत्रोत्तिङ्गः- पिपीलिकासन्तानक: पनको- भूम्यादावुल्लिविशेष उदकमृत्तिका षष्ठोद्देशकः अचिराप्कायार्लीकृता मृत्तिका मर्कटसन्तानको- लूतातन्तुजालम्, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत्, किं कृत्वा? सूत्रम् 219 एकत्वभावना तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य 2, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य 2, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणान्युच्चारप्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरण: कृतसिद्धनमस्कार आवर्तितपश्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये इत्वर मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं साकारं प्रत्याख्यानम्, साकारप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकादेरसम्भवात्, किं पुनर्यावत्कथिकभक्तप्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा-8 यद्यहमस्माद्रोगात् पञ्चषैरहाभिर्मुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरं-इङ्गितमरणं धृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तं च पच्चक्खइ आहारं चउविहं णियमओ गुरुसमीवे / इंगियदेसंमि तहा चिट्ठपि हु नियमओ कुणइ // 1 // उव्वत्तइ परिअत्तइ काइगमाईऽवि अप्पणा कुणइ / सव्वमिह अप्पणच्चिअ ण अन्नजोगेण धितिबलिओ॥२॥ तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह- तद् इङ्गितमरणं सद्भयो हितं सत्यम्, 0प्रत्याख्याति आहारं चतुर्विध नियमाद् गुरुसमीपे / इङ्गितदेशे तथा चेष्टामपि नियमतः करोति // 1 // उद्वर्तते परिवर्तते कायिक्याद्यपि आत्मना करोति / सर्वमिहात्मनैव नान्ययोगेन धृतिबलिकः // 2 // // 424 //