SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ 496 // श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, सप्तमोद्देशक: | सूत्रम् 220 प्रतिमास्वरूपः पादपोपगमनं ॥अष्टमाध्ययने सप्तमोद्देशकः॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके एकत्वभावनाभावितस्य धृतिसंहननाद्युपेतस्येङ्गितमरणमभिहितम्, इह तु सैवैकत्वभावना प्रतिमाभिर्निष्पद्यत इतिकृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए, एवं से कप्पेड़ कडिबंधणं धारित्तए। सूत्रम् 220 // यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-दिग्वासा: पर्युषित: संयमे व्यवस्थितो णं इति वाक्यालङ्कारे तस्य भिक्षोः एव मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा- शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्त:करणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोढुमिति, तथा एकतरान् अन्यतरांश्चानुकूलप्रत्यनीकान् विरूपरूपान् स्पर्शान् दुःखविशेषानध्यासयितुं-सोदुमिति, किं त्वहं ह्री- लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनम्, तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणैः से तस्य कल्पते युज्यते कटिबन्धनं चोलपट्टकं कर्तुम्, स च विस्तरेण चतुरङ्गलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, यदि पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति // 220 // एतत्प्रतिपादयितुमाह // 496 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy