Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 538
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 500 // स्योद्देशकस्यादिसूत्रमुच्यते श्रुतस्कन्धः१ अष्टममध्ययनं ___ अनुष्टुप् / अणुपुव्वेण विमोहाई, जाई धीरा समासज्ज / वसुमन्तो मइमन्तो, सव्वं नच्चा अणेलिसं ॥सूगा०१७ // दुविहंपि विमोक्षम्, विइत्ता णं, बुद्धा धम्मस्स पारगा। अणुपुव्वीइ सङ्खाए, आरम्भाओ(य)तिउट्टई॥सू० गा०१८॥कसाए पयणू किच्चा, अप्पाहारे 8 अष्टमोद्देशकः तितिक्खए। अह भिक्खूगिलाइजा, आहारस्सेव अन्तियं॥सू०गा० १९॥जीवियं नाभिकङ्खिज्जा, मरणं नोवि पत्थए। दुहओऽविन सूत्रम् (अनुष्टुप) 17-20 सजिजा, जीविए मरणेतहा।। सूगा०२०॥ आनुपूर्वा__आनुपूर्वी- क्रमः, तद्यथा- प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखना- विहारादिः क्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूर्व्या यान्यभिहितानि कानि पुनस्तानि?- विमोहानि विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा- भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीरा:-अक्षोभ्या: समासाद्यप्राप्य वसु- द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मति:- हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा सर्वं कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहननाद्यपेक्षयाऽनन्यसदृशं-अद्वितीयम्, सर्व ज्ञात्वा समाधिमनुपालयेदिति // 17 // किं च- द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा- आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधम्, तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, ण मिति वाक्यालङ्कारे, के विदित्वा?- बुद्धा अवगततत्त्वा धर्मस्य- श्रुतचारित्राख्यस्य पारगा:-सम्यग्वेत्तारः, ते बुद्धा धर्मस्वरूपवेदिन: आनुपूर्व्याप्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवत: कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तस्तथा कस्मै मरणायालमहमित्येवं संख्याय ज्ञात्वा, आरम्भणमारम्भः-शरीरधारणायान्नपानाद्यन्वेषणा // 500 //

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586