SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 500 // स्योद्देशकस्यादिसूत्रमुच्यते श्रुतस्कन्धः१ अष्टममध्ययनं ___ अनुष्टुप् / अणुपुव्वेण विमोहाई, जाई धीरा समासज्ज / वसुमन्तो मइमन्तो, सव्वं नच्चा अणेलिसं ॥सूगा०१७ // दुविहंपि विमोक्षम्, विइत्ता णं, बुद्धा धम्मस्स पारगा। अणुपुव्वीइ सङ्खाए, आरम्भाओ(य)तिउट्टई॥सू० गा०१८॥कसाए पयणू किच्चा, अप्पाहारे 8 अष्टमोद्देशकः तितिक्खए। अह भिक्खूगिलाइजा, आहारस्सेव अन्तियं॥सू०गा० १९॥जीवियं नाभिकङ्खिज्जा, मरणं नोवि पत्थए। दुहओऽविन सूत्रम् (अनुष्टुप) 17-20 सजिजा, जीविए मरणेतहा।। सूगा०२०॥ आनुपूर्वा__आनुपूर्वी- क्रमः, तद्यथा- प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखना- विहारादिः क्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूर्व्या यान्यभिहितानि कानि पुनस्तानि?- विमोहानि विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा- भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीरा:-अक्षोभ्या: समासाद्यप्राप्य वसु- द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मति:- हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा सर्वं कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहननाद्यपेक्षयाऽनन्यसदृशं-अद्वितीयम्, सर्व ज्ञात्वा समाधिमनुपालयेदिति // 17 // किं च- द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा- आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधम्, तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, ण मिति वाक्यालङ्कारे, के विदित्वा?- बुद्धा अवगततत्त्वा धर्मस्य- श्रुतचारित्राख्यस्य पारगा:-सम्यग्वेत्तारः, ते बुद्धा धर्मस्वरूपवेदिन: आनुपूर्व्याप्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवत: कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तस्तथा कस्मै मरणायालमहमित्येवं संख्याय ज्ञात्वा, आरम्भणमारम्भः-शरीरधारणायान्नपानाद्यन्वेषणा // 500 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy