________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 501 // श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, अष्टमोद्देशक: सूत्रम् 21-24 आनुपूर्वाविहारादिः त्मकस्तस्मात् त्रुट्यति-अपगच्छतीत्यर्थः, सुब्ब्यत्ययेन पञ्चम्यर्थे चतुर्थी, पाठान्तरं वा कम्मुणाओ तिउट्टई कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति वर्तमानसामीप्ये वर्तमानवद्वे (पा० ३-३-१३१)त्यनेन भविष्यत्कालस्य वर्तमानता // 18 // स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां कुर्यादित्येतद्दर्शयितुमाह- कष:- संसारस्तस्यायाः कषाया:क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपि न प्रकाममिति दर्शयति- अल्पाहार: स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोद्भव स्यादतस्तदुपशमो विधेय इति दर्शयति- तितिक्षते-असदृशजनादपि दुर्भाषितादि क्षमते, रोगातर्बेवासम्यक्सहत इति, तथा च संलेखनांकुर्खन्नाहारस्याल्पतया अथे त्यानन्तर्ये भिक्षुः मुमुक्षुः ग्लायेत् आहारेण विना ग्लानतां व्रजेत्, क्षणे क्षणे मूर्च्छन्नाहारस्यैवान्तिकंपर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादि संलेखनाक्रमं विहायानशननं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिकं- समीपं न व्रजेत्, तथाहि- आहारयामि तावत्कतिचिद्दिनानि पुनः संलेखनाशेषं विधास्येऽहमित्येवं नाहारान्तिकमियादिति // 19 // किंच-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं-प्राणधारणलक्षणं नाभिकाङ्केत्, नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् उभयतोऽपि जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा॥२०॥ किं भूतस्तर्हि स्यादित्याह मज्झत्थो निजरापेही, समाहिमणुपालए। अन्तो बहिं विऊस्सिन्ज, अज्झत्थं सुद्धमेसए।सू०गा०२१॥जं किंचुवकमंजाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिन्न पण्डिए॥सूगा० २२॥गामे वा अदुवा रणे, थंडिलं पडिलेहिया। अप्पपाणं तु विनाय, तणाई संथरे मुणी / / सू०गा० 23 / / अणाहारो तुयट्टिज्जा, पुट्ठो तत्थऽहियासए / नाइवेलं उवचरे माणुस्सेहि // 501 //